________________
प्रज्ञापनायाः मल
य० वृत्तौ .
॥२२८॥
दशमं चरमाचरमपदम् ।
तदेवं व्याख्यातं नवमं पदं, इदानीं दशममारभ्यते, तस्य चायमभिसंबन्धः - इहानन्तरपदे सत्त्वानां योनयः प्रतिपादिताः, अस्मिंश्च यदुपपातक्षेत्रं रत्नप्रभादि तस्य चरमाचरमविभागप्रदर्शनं क्रियते, तत्र चेदमादिसूत्रम् - कति णं भंते ! पुढवीओ पं० १, गोयमा ! अट्ठ पुढवीओ पं० तं० - रयणप्पभा सकरप्पभा वालुयप्पभा पंकप्पभा धूमप्पभा तमप्पभा तमतमप्पभा ईसीपन्भारा || इमा णं भंते ! रयणप्पभा पुढवी किं चरमा अचरमा चरमाई अचरमाई चरमंतपदेसा अचरमंतपदेसा ?, गोयमा ! इमा णं रयणप्पभा पुढवी नो चरमा नो अचरमा नो चरमातिं नो अचरमार्ति नो चरमंतपदेसा नो अचरमंतपदेसा नियमा चरमं चरमाणि य चरमंतपदेसा य अचरमंतपदेसा य, एवं जाव अधेसत्तमा पुढवी, सोहम्माती जाव अणुत्तरविमाणाणं, एवं चैव ईसीपन्भारावि, एवं चेव लोगेवि, एवं चेव अलोगेवि । (सूत्रं १५४ ) 'कति णं भंते ! पुढवीओ पण्णत्ताओ' इत्यादि सुगमं, नवरमीषत्प्राग्भारा पञ्चचत्वारिंशद्योजनलक्षायामविष्कम्भप्रमाणा शुद्धस्फटिकसंकाशा सिद्धशिला । 'इमा णं भंते ! रयणप्पभा पुढवी किं चरमा अचरमेत्यादि पृच्छा, अथ केयं चरमाचरमपरिभाषा ?, उच्यते, चरमं नाम पर्यन्तवर्ति, तच्चरमत्वमापेक्षिकं, अन्यापेक्षया तस्य भावात्, यथा पूर्वशरीरापेक्षया चरमशरीरमिति, अचरमं अप्रान्तं मध्यवर्तीतियावत्, तदपि चापेक्षिकं तस्य चरमापेक्षया
Jain Education International
For Personal & Private Use Only
१० चरनाचरमपदे पृथ्वीनां चरमाचरमता सू.
१५४
॥२२८॥
www.jainelibrary.org