SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापना याः मल य० वृत्तौ. ॥२२९॥ प्रदेशावगाढेत्यनेकावयवविभागात्मिका विवक्ष्यते तदा यथोक्तनिर्वचनविषया भवति, तथाहि - रत्नप्रभा पृथिवी तावदनेन प्रकारेण व्यवस्थिता, स्थापना चेयं । एवमवस्थिताया अस्या यानि प्रान्तेष्ववस्थितानि खण्डानि प्रत्येकं तथाविधविशिष्टैकत्वपरिणामपरिणतानि तानि चरमाणि, यत्पुनर्मध्ये महद्रलप्रभायाः खण्डं तत्तथाविधैकत्वपरिणामत्वादेकत्वेन विवक्षितमित्यचरमं, उभयसमुदायरूपा चेयं, अन्यथा तदभावप्रसङ्गात्, तदेवमवयवावयविरूपतया चिन्तायामचरमं चरमाणि चेत्यखण्डैक निर्वचनविषया प्रतिपादिता, यदा पुनः प्रदेशचिन्ता क्रियते तदैवं निर्वचनम् - चरमान्तप्रदेशाश्च अचरमान्तप्रदेशाश्च, तथाहि — ये बाह्यखण्डेषु गताः प्रदेशास्ते चरमान्तप्रदेशाः, ये पुनर्मध्यैकखण्डगताः प्रदेशास्ते अचरमान्तप्रदेशाः अन्ये तु व्याचक्षते — चरमाणि नाम तथाविधप्रविष्टेतरप्रान्तैकप्रादेशिक श्रेणिपटलरूपाणि, मध्यभागोऽचरम इति, तदपि समीचीनं, दोषाभावात्, चरमान्तप्रदेशा यथोक्तरूपप्रान्तैकप्रादेशिक श्रेणिपटलगताः प्रदेशाः, अचरमान्तप्रदेशा मध्यभागगताः प्रदेशाः, अनेन निर्वचनसूत्रेण एकान्तदुर्नय निरोधप्रधानेन अवयवावयविरूपंरत्नप्रभादिकं वस्तु तयोश्चावयवावयविनोर्भेदाभेद इत्यावेदितं यथा चावयवावयविरूपतायां न परोक्तदूषणावकाशस्तथा धर्मसंग्रहणिटीकायां बाह्यवस्तुप्रतिष्ठाऽवसरे प्रतिपादितमिति ततोऽवधायें । ' एवं जाव आहेसत्तमाए पुढवीत्यादि, यथा रत्नप्रभा पृथिवी प्रश्ननिर्वचनाभ्यामुक्ता एवं शर्कराद्या अपि पृथिव्यः सौधर्मादीनि च विमानानि अनुत्तरविमानपर्यवसानानि ईषत्प्राग्भारा लोकश्च वक्तव्यः । सूत्रपाठोऽपि Jain Education International For Personal & Private Use Only १०चरमाचरमपदे रत्नप्रभा दीना चर मतादि सृ १५४ ॥२२९॥ www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy