________________
प्राकृतस्यात्, आममन्तीत्यादेः पुनरुच्चारणं शिष्यवचने आदरोपदर्शनार्थ, गुरुभिराद्रियमाणवाचना हि शिण्याः सन्तोपवनसो भवन्ति, तथा च सति पौनःपुन्येन प्रश्नश्रवणार्थनिर्णयादिषु घटन्ते लोके चाऽऽदेयवचना भवन्ति एवं प्रभूतभव्योपकारस्तीर्थाभिवृद्धिश्च । असुरकुमारसूत्रे 'उक्कोसेणं सातिरेगस्स पक्खस्स इति, इह देवेषु यस्य यावन्ति सागरोपमाणि स्थितिस्तस्य तावत्पक्षप्रमाण उच्छासनिःश्वासक्रियाविरहकालः, असुरकुमासणां चोत्कृष्टा स्थितिरेक सातिरकं सागरोपमं 'चमरबलि सारमहिय'मिति वचनात् ततः 'सातिरेगस्स पक्खस्स' इत्युक्तं, सातिरेकात्पक्षादूर च्छ्रसम्तीत्यर्थः, पृथिवीकायिकसूत्रे 'वेमायाए' इति विषमा मात्रा विमात्रा तया, किमुक्तं भवति ?-अनियतविरहकालप्रमाणा तेषामुच्छ्रासनिःश्वासक्रिया, तथा देवेषु यो यथा महायुः स तथा सुखी, सुखितानां च यथोत्तरं महा
नुच्छ्वासनिःश्वासक्रियाविरहकालः, दुःखरूपत्वादुच्छासनिःश्वासक्रियायाः, ततो यथा यथाऽऽयुषः सागरोपमवृद्धिस्तिथा तथोच्छासनिःश्वासक्रियाविरहप्रमाणस्यापि पक्षवृद्धिः। इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां सप्तममुलासाख्यं पदं समाप्तं ॥
RMINVMNNMTVVVMVIDOMINIMITVMNISTANINVOTIVAL R॥ इति श्रीमन्मलयगिर्याचार्यविरचितवृत्तियुतं सप्तममुछ्वासपदं समाप्तम् ॥ ENNANRANNNNNNAAZZXXNNNNNNNNNNNNNNAMAS
mammaNamanamoon
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org