________________
यद्यस्मिन् भवे उदयमागतमवतिष्ठते तद् गतिजातिशरीरपञ्चकादिव्यतिरिक्तं स्थितिनामावसेयमिति भावः, गत्यादीनां ।
वर्जनं तेषां खपदैः 'गइनामनिहत्ताउए' इत्यादिभिरुपात्तत्वात् , तेन सह निधत्तायुः स्थितिनामनिधत्तायुः ३, तथा ॥ अवगाहते यस्यां जीवः साऽवगाहना-शरीरं औदारिकादिः तस्य नाम-औदारिकादिशरीरनामकर्म अवगाहनानाम
शेषं तथैव ४, 'पएसनामनिहत्ताउए'त्ति प्रदेशाः-कर्मपरमाणवः ते च प्रदेशाः संक्रमतोऽप्यनुभूयमानाः परिगृह्यन्ते तत्प्रधानं नाम प्रदेशनाम, किमुक्तं भवति ?-यद्यस्मिन् भवे प्रदेशतोऽनुभूयते तत्प्रदेशनामेति, अनेन विपाकोदयमप्राप्तमपि नाम परिगृहीतं, तेन प्रदेशनाम्ना सह निधत्तमायुःप्रदेशनामनिधत्तायुः ५, तथाऽनुभावो-विपाकः, स चेह प्रकर्षप्रातः परिगृह्यते तत्प्रधानं नाम अनुभावनाम-यद्यस्मिन् भवे तीव्रविपाकं नामकर्मानुभूयते त(य)था नारकायुषि अशुभवर्णगन्धरसस्पर्शीपघातानादेयदुःखरायशःकीर्त्यादिनामानि तदनुभावनाम तेन सह निधत्तमायुरनुभावनामनिधत्तायुः ६, अथ कस्माजात्यादिनामकर्मभिरायुर्विशेष्यते ?, उच्यते, आयुःकर्मप्राधान्यख्यापनार्थ, तथाहि-नारकाद्यायुरुदये सति जात्यादिनामकर्मणामुदयो भवति नान्यथेति भवत्यायुषः प्रधानता इति, अथ जात्यादिनामविशिष्टमायुः कियद्भिराकर्वधातीति जिज्ञासुर्जीवादिदण्डकक्रमेण पृच्छति-'जीवा णं भंते ! जातिनामनिहत्ताउयं कइहिं आगरिसेहि पगरंति' इत्यादि, आकर्षो नाम तथाविधेन प्रयत्नेन कर्मपुद्गलोपादानं यथा गौः पानीयं पिबन्ती भयेन पुनः पुनराघोटयति एवं जीवोऽपि यदा तीव्रणायुबन्धाध्यवसायेन जातिनामनिधत्तायुः अन्यद्वा बध्नाति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org