________________
शब्दनिष्पत्तिः, परम्पराश्च ते सिद्धाश्च परम्परसिद्धाः विवक्षितसिद्धस्य प्रथमसमयात् प्राग् द्वितीयादिपु समयेष्वनतामतीताद्धां यावद्वर्त्तमाना इति भावः, ते च तेऽसंसारसमापन्नाश्च परम्परसिद्धासंसारसमापन्नास्ते च ते जीवाश्च तेषां प्रज्ञापना परम्परसिद्धासंसारसमापन्नजीवप्रज्ञापना, अत्रापि चशब्दः खगतानेकभेदसूचकः ॥ 'से किन्त'मित्यादि, अथ का सा अनन्तरसिद्धासंसारसमापन्नजीवप्रज्ञापना १, सूरिराह-अनन्तरसिद्धासंसारसमापन्नजीवप्रज्ञापना | पञ्चदशविधा प्रज्ञप्ता, अनन्तरसिद्धानामुपाधिभेदतः पञ्चदशविधत्वात् , तदेव पञ्चदशविधत्वं तेषामाह-'तंजहे'त्यादि, 'तद्यथेति पञ्चदशभेदोपदर्शनसूचकं, तीर्थसिद्धाः तीर्यते संसारसागरोऽनेनेति तीर्थ-यथावस्थितसकलजीवाजीवादिपदार्थसार्थप्ररूपकं परमगुरुप्रणीतं प्रवचनम् , तच निराधारं न भवति इति सङ्घः प्रथमगणधरो वा वेदितव्यः,
उक्तं च-"तित्थं भन्ते ! तित्थं तित्थकरे तित्थं ?, गोयमा !, अरिहा ताव (नियमा) तित्थकरे, तित्थं पुण S|चाउन्वण्णो समणसङ्घो पढमगणहरो वे'ति, तस्मिन्नुत्पन्ने ये सिद्धास्ते तीर्थसिद्धाः, तथा तीर्थस्याभावोऽतीर्थ, I तीर्थस्याभावश्चानुत्पादोऽपान्तराले व्यवच्छेदो वा तस्मिन् ये सिद्धास्तेऽतीर्थसिद्धाः, तत्र तीर्थस्यानुत्पादे सिद्धा मरुदेवीप्रभृतयः, न हि मरुदेव्यादिसिद्धिगमनकाले तीर्थमुत्पन्नमासीत् , तथा तीर्थस्य व्यवच्छेदः सुविधिखाम्याद्य
१ तीर्थ ( शासनं ) भदन्त ! तीर्थ (तरणसाधनं ) तीर्थकरस्तीर्थम् ?, गौतम ! अर्हन् तावत् नियमातीर्थकरः, तीर्थ पुनश्चतुर्वर्णः श्रमणसङ्घः प्रथमगणधरो वा।
प्र.४N
Jain Education international
For Personal & Private Use Only
onlainelibrary.org