SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मलयवृत्ती. १ प्रज्ञापनापदे न्तरसिद्धप्रज्ञा. (सू. ७) ॥१९॥ पान्तरालेषु तत्र ये जातिस्मरणादिनाऽपवर्गमार्गमवाप्य सिद्धास्ते तीर्थव्यवच्छेदसिद्धाः २, तथा तीर्थकराः सन्तो ये सिद्धास्ते तीर्थकरसिद्धाः ३ सामान्यकेवलिनः सन्तो ये सिद्धास्तेऽतीर्थकरसिद्धाः ४ तथा खयंबुद्धाः सन्तो ये सिद्धास्ते स्वयम्बुद्धसिद्धाः ५, प्रत्येकबुद्धाः सन्तो ये सिद्धास्ते प्रत्येकबुद्धसिद्धाः ६, अथ खयम्बुद्धप्रत्येकबुद्धानां कः प्रतिविशेषः १. उच्यते. बोध्युपधिश्रुतलिङ्गकृतो विशेषः, तथाहि-खयम्बुद्धा बाह्यप्रत्ययमन्तरेणैव बुध्यन्ते, खयमेव-बाखप्रत्ययमन्तरेणैव निजजातिस्मरणादिना बुद्धाः खयम्बुद्धा इति व्युत्पत्तेः, ते च द्विधा-तीर्थकरास्तीर्थकरव्यतिरिताश्च. इह तीर्थकरव्यतिरिक्तैरधिकारः, आह च नन्द्यध्ययनचूर्णिकृत्-'ते दुविहा सयंबुद्धा-तित्थयरा तित्थयरवइरित्ता य, इह वइरित्तेहिं अहिगारो' इति । प्रत्येकबुद्धास्तु बाह्यप्रत्ययमपेक्ष्य, प्रत्येकं-बायं वृषभादिकं कारणमभिसमीक्ष्य बुद्धाः प्रत्येकबुद्धा इति व्युत्पत्तेः, तथा च श्रूयते-बाह्यप्रत्ययसापेक्षा करकण्डूवादीनां बोधिः, बहिःप्रत्ययमपेक्ष्य च ते बुद्धाः सन्तो नियमतः प्रत्येकमेव विहरन्ति, न गच्छवासिन इव संहताः, आह च नन्द्यध्ययनचूर्णिकृत-पत्तेयं-बाह्यं वृषभादिकं कारणमभिसमीक्ष्य बुद्धाः, बहिष्प्रत्ययं प्रति बुद्धानां च पत्तेयं नियमा विहारो जम्हा तम्हा य ते पत्तेयबुद्धा' इति, खयम्बुद्धानामुपधिादशविध एव पात्रादिकः, प्रत्येकबुद्धानां तु द्विधा-जघन्यतस्तथोत्कर्षतश्च, तत्र जघन्यतो द्विविधः, उत्कर्षतो नवविधः प्रावरणवर्जः, उक्तं च-“पत्तेयबुद्धाणं जहन्नेणं दुविहो उक्कोसेणं नवविहो नियमा पाउरणवजो भवई" इति, तथा खयम्बुद्धानां पूर्वाधीतं श्रुतं भवति वा न वा, यदि ॥१९॥ JainEducetidi o nal For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy