SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ केवइयं कालं विरहिया उबट्टणाए पन्नत्ता १, गोयमा ! जहन्नेणं एवं समयं उक्कोसेणं वारस मुहुत्ता । देवगई णं भंते! केवइयं कालं विरहिया उद्दट्टणाए पन्नत्ता ?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं वारस मुहुत्ता । दारं । ( सूत्रं १२२) ‘बारस चउवीसाई' इत्यादि, प्रथमं गतिषु सामान्यतः उपपातविरहस्य उद्वर्त्तनाविरहस्य च द्वादश मुहूर्त्ताः प्रमाणं वक्तव्यं, तदनन्तरं नैरयिकादिषु भेदेषु उपपातविरहस्योद्वर्त्तनाविरहस्य च चतुर्विंशतिर्मुहूर्त्ताः गतिषु प्रत्येकमादौ वक्तव्याः, ततः 'संतरं 'ति सान्तरं नैरयिकादयः उत्पद्यन्ते निरन्तरं चेति वक्तव्यं, तदनन्तरमेकसमयेन नैरयिकादयः प्रत्येकं कति उत्पद्यन्ते कति वोद्वर्त्तन्ते इति चिन्तनीयं, ततः कुत उत्पद्यन्ते नारकादय इति चिन्त्यते, तत 'उच्चट्टणा' इति नैरयिकादय उद्वृत्ताः सन्तः कुत्रोत्पद्यन्ते इति वक्तव्यं, तदनन्तरं कतिभागावशेषेऽनुभूयमानभवायुषि जीवाः पारभविकमायुर्वन्तीति वक्तव्यं, तथा कतिभिराकर्षैरुत्कर्षतः आयुर्वन्धका इति चिन्तायां अष्टावाकर्षा वक्तव्याः । एष सङ्ग्रहणिगाथासङ्क्षेपार्थः । एनमेव क्रमेण विवरीपुराह - 'निरयगई णं भंते ! केवइयं कालं विरहिया उववाणं पन्नत्ता' इत्यादि, निरयगतिनाम - नरकगतिनामकम्मदियजनितो जीवस्यौदयिको भावः, स चैकः सप्तपृथि - वीव्यापी चेति एकवचनं, सप्तानां च पृथिवीनां परिग्रहः, णमिति वाक्यालङ्कारे, भदन्तेति गुर्वामन्त्रणे परमकल्याणयोगिन् ! 'केवइयं' ति कियन्तं कालं विरहिता - शून्या 'उपपातेन' उपपतनमुपपातः तदन्यगतिकानां सत्त्वानां नारकत्वेनोत्पाद इति भावः तेन 'प्रज्ञप्ता' प्ररूपिता भगवताऽन्यैश्च ऋषभादिभिस्तीर्थकरैः, एवं प्रश्ने कृते भगवानाह - Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy