________________
स्कन्धेषु मध्यमावगाहनामधिकृत्य प्रदेशपरिवृद्ध्या वृद्धिानिश्च तावत् वक्तव्या यावद्दशप्रदेशके स्कन्धे सप्तप्रदेशपरिवृद्धिः, सा चैवं वक्तव्या-'अजहन्नमणुक्कोसोगाहणए दसपएसिए अजहन्नमणुक्कोसोगाहणस्स दसपएसियस्स खंधस्स ओगाहणट्टयाए सिय हीणे सिय तुल्ले सिय अब्भहिए जइ हीणे पएसहीणे दुपएसहीणे जाव सत्तपएसहीणे अह अभहिए पएसअन्भहिए दुपएसअब्भहिए जाव सत्तपएसअब्भहिए' इति, शेषं सूत्रंखयमुपयुज्य परिभावनीयं सुगमत्वात्, नवरमनन्तप्रदेशकोत्कृष्टावगाहनाचिन्तायां 'ठिईएवि तुल्ले' इति उत्कृष्टावगाहनः किलानन्तप्रदेशकः स्कन्धः स उच्यते यः समस्तलोकव्यापी स चाचित्तमहास्कन्धः केवलिसमुद्घातकर्मस्कन्धो वा, तयोश्चोभयोरपि दण्डकपाटमन्थान्तरपूरणलक्षणचतुःसमयप्रमाणतेति तुल्यकालता, शेषं सूत्रमापदपरिसमासः प्रागुक्तभावनाऽनुसारेण खयमुपयुज्य परिभावनीयं सुगमत्वात् , नवरं जघन्यप्रदेशकाः स्कन्धाः द्विप्रदेशका उत्कृष्टप्रदेशकाः सर्वोत्कृष्टानन्तप्रदेशाः॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां विशेषाख्यं पदं समाप्तं ।
STRASTRA.SARASTRA-RE-STRA ST A TESTRA-STREETRA इति श्री प्रज्ञा सूत्र श्रीमन्मलयगिरिसूरिवर्य विशेषापरपर्यायं पर्यायाख्यं पदं समाप्तं॥ *
वचन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org