________________
५ पर्याय
प्रज्ञापनाया: मलय० वृत्ती.
॥२०॥
990000000000000000
पएसमभहिए वा दुपएसमब्भहिए वा जाव नवपएसमन्भहिए वा' इति भावना पूर्वोक्तानुसारेण खयं कर्तव्या. | सङ्ख्यातप्रादेशिकस्कन्धसूत्रे 'ओगाहणट्टयाए दुट्ठाणवडिए' इति सङ्ख्येयभागेन सङ्ख्येयगुणेन चेति, असङ्ख्यातप्रदेशक-18 स्कन्धे 'ओगाहणट्ठयाए चउट्टाणवडिए' इति असङ्ख्यातभागेन सङ्ख्यातभागेन सङ्ख्यातगुणेनासङ्ग्यातगुणेनेति, अनन्तप्रादेशिकस्कन्धेऽप्यवगाहनार्थतया चतुःस्थानपतितता, अनन्तप्रदेशावगाहनाया असंभवतोऽनन्तभागानन्तगुणाभ्यां वृद्धिहान्यसंभवात् , 'एगपएसोगाढाणं पोग्गलाणं भंते !' इत्यादि, अत्र 'दबट्टयाए तुल्ले पएसट्ठयाए छट्ठाणवडिए' इति, इदमपि विवक्षितैकप्रदेशावगाढं परमाण्वादिकं द्रव्यं इदमप्यपरकप्रदेशावगाढं द्विप्रदेशादिकं द्रव्यमिति द्रव्यार्थतया तुल्यता, प्रदेशार्थतया षट्स्थानपतितता, अनन्तप्रदेशकस्यापि स्कन्धस्यैकस्मिन्नाकाशप्रदेशेऽवगाहनासंभवात्, शेष सुगम, एवं स्थितिभावाश्रयाण्यपि सूत्राण्युपयुज्य भावनीयानि. 'जहन्नोगाहणगाणं भंते ! दुपएसियाणं' इत्यादि, जघन्यद्विप्रदेशकस्य स्कन्धस्यावगाहना एकप्रदेशात्मिका उत्कृष्टा द्विप्रदेशात्मिका अत्रापान्तरालं नास्तीति मध्यमा न लभ्यते तत उक्तं 'अजहन्नमणुक्कोसोगाहणओ नत्थि' इति, त्रिप्रदेशकस्य स्कन्धस्य जघन्यावगाहना एकप्रदेशरूपा मध्यमा द्विप्रदेशरूपा उत्कृष्टा त्रिप्रदेशरूपा, चतुःप्रदेशस्य जघन्या एकप्रदेशरूपा उत्कृष्टा चतुःप्रदेशात्मिका मध्यमा द्विविधा-द्विप्रदेशात्मिका त्रिप्रदेशात्मिका च, एवं च सति मध्यमावगाहनश्चतुःप्रदेशको मध्यमावगाहनचतुःप्रदेशकापेक्षया यदि हीनस्तर्हि प्रदेशतो हीनो भवति अथाभ्यधिकस्ततः प्रदेशतोऽभ्यधिकः, एवं पञ्चप्रदेशादिषु
॥२०३॥
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org