________________
दवट्ठयाए' इति वचनात्, ततः कालभावाभ्या सप्रदेशत्वेऽपि न कश्चिद्दोषः, तथा परमाण्वादीनामसङ्ख्यातप्रदेशस्क--2 न्धपर्यन्तानां केषांचिदनन्तप्रादेशिकानामपि स्कन्धानां तथैकप्रदेशावगाढानां यावत् सङ्ख्यातप्रदेशावगाढानां शीतोष्णस्निग्धरूक्षरूपाश्चत्वार एव स्पर्शा इति तैरेव परमाण्वादीनां षट्स्थानपतितता वक्तव्या, न शेषैः, द्विप्रदेशस्कन्धसूत्रे । 'ओगाहणट्टयाए सिय हीणे सिय तुल्ले सिय अब्भहिए' इत्यादि, यदा द्वावपि द्विप्रदेशिको स्कन्धौ द्विप्रदेशावगाढावेकप्रदेशावगाढौ वा भवतस्तदा तुल्यावगाहनौ, यदा त्वेको द्विप्रदेशावगाढोऽपरस्त्वेकप्रदेशावगाढस्तदा एकप्रदेशावगाढो द्विप्रदेशावगाढापेक्षया प्रदेशहीनो द्विप्रदेशावगाढस्तु तदपेक्षया(प्रदेशा)ऽभ्यधिकः शेषं प्राग्वत् , त्रिप्रदेशस्कन्धसूत्रे 'ओगाहणट्टयाए सिय हीणे' इत्यादि, यदा द्वावपि त्रिप्रदेशको स्कन्धौ त्रिप्रदेशावगाढौ द्विप्रदेशावगाढी एकप्रदेशावगाढी वा तदा तुल्यौ यदा त्वेकस्त्रिप्रदेशावगाढो वा द्विप्रदेशावगाढो वा अपरस्तु द्विप्रदेशावगाढ एकप्रदे|शावगाढो वा तदा द्विप्रदेशावगाढेकप्रदेशावगाढौ यथाक्रमं त्रिप्रदेशावगाढद्विप्रदेशावगाढापेक्षया एकप्रदेशहीनौ त्रिप्रदेशावगाढद्विप्रदेशावगाढौ तु तदपेक्षया एकप्रदेशाभ्यधिको, यदा त्वेकस्त्रिप्रदेशावगाढोऽपर एकप्रदेशावगाढस्तदा एकप्रदेशावगाढस्त्रिप्रदेशावगाढापेक्षया द्विप्रदेशहीन त्रिप्रदेशावगाढस्तु तदपेक्षया द्विप्रदेशाभ्यधिकः, एवमेकै
ड्या चतुःप्रदेशादिषु स्कन्धेष्ववगाहनामधिकृत्य हानिवृद्धिर्वा तावद् वक्तव्या यावद्दशप्रदेशस्कन्धः, तस्मिंश्च 18 दशप्रदेशके स्कन्धे एवं वक्तव्यं 'जह हीणे पएसहीणे वा दुपएसहीणे वा जाव नवपएसहीणे वा अह अब्भहिए
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org