SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ न्यायामवगाहनायां नोत्पद्यते तथाखाभाव्यात् अतो विभङ्गज्ञानं न लभ्यते इति द्वाभ्यामज्ञानाभ्यामित्युक्तं, उत्कृटावगाहनमनुष्यसूत्रे 'ठिईए सिय हीणे सिय तुल्ले सिय अब्भहिए जइ हीणे असंखेजभागहीणे जइ अब्भहिए असंखेजभागअब्भहिए' इति, उत्कृष्टावगाहना हि मनुष्यास्त्रिगव्यूतोच्छ्रयाः त्रिगन्यूतानां च स्थितिर्जघन्यतः पल्यो|पमासङ्ख्येयभागहीनानि त्रीणि पल्योपमानि उत्कर्षतस्तान्येव परिपूर्णानि त्रीणि पल्योपमानि, उक्तं च जीवाभिगमे'उत्तरकुरुदेवकुराए मणुस्साणं भंते ! केवइयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं तिन्नि पलिओवमाइं पलिओवमस्सासंखिजइभागहीणाई उक्कोसेणं तिन्नि पलिओवमाई' त्रिपल्योपमासङ्ख्येयभागश्च त्रयाणां पल्योपमानामसङ्ख्ये| यतमो भाग इति पल्योपमासङ्ख्येयभागहीनपल्योपमत्रयस्थितिकः परिपूर्णपल्योपमत्रयस्थितिकापेक्षयाऽसङ्ख्येयभागहीनः, इतरस्तु तदपेक्षयाऽसङ्ख्येयभागाधिकः, शेषा वृद्धिहानयो न लभ्यन्ते, 'दो नाणा दो अन्नाणा' इति उत्कृष्टा| वगाहना हि असङ्ख्येयवर्षायुषः, असङ्ख्येयवर्षायुषां चावधिविभङ्गासंभवः, तथाखाभाव्यात् , अतो द्वे एव ज्ञाने द्वे चाज्ञाने इति, तथाऽजघन्योत्कृष्टावगाहनः सङ्ख्येयवर्षायुष्कोऽपि भवति असङ्ख्येयवर्षायुष्कोऽपि भवति, असङ्ख्येयव ोयुष्कोऽपि गन्यूतद्विगव्यूतोच्छ्यः ततोऽवगाहनयाऽपि चतुःस्थानपतितत्वं स्थित्याऽपि तथा, आद्यैश्चतुर्भिमतिश्रुवातावधिमनःपर्यायरूपानेः पदस्थानपतिताः, तेषां चतुर्णामपि ज्ञानानां तत्तद्र्व्यादिसापेक्षतया क्षयोपशमवैचित्र्य तस्तारतम्यभावात्, केवलज्ञानपर्यवैस्तुल्यता, निःशेषखावरणक्षयतः प्रादुर्भूतस्य केवलज्ञानस्य भेदाभावात्, शेष 299292029290882029292020ma Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy