SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ कामयेऽवगाहनेति न तेषां जघन्यावगाहना लभ्यते किं तु सङ्ख्येयवर्षायुषां, सङ्ग्येयवर्षायुषश्च स्थित्या त्रिस्थानपतिताः, |एतच्च भावितं प्राक्, तत उक्तं स्थित्या त्रिस्थानपतिता इति, 'दोहिं नाणेहिं दोहिं अन्नाणेहिं' इति जघन्यावगा-1 हनो हि तिर्यक्पञ्चेन्द्रियः सङ्ग्येयवर्षायुष्कोऽपर्यासो भवति सोऽपि चाल्पकायेषु मध्ये समुत्पद्यमानस्ततस्तस्यावधिविभङ्गज्ञानासंभवात् द्वे ज्ञाने द्वे अज्ञाने उक्ते, यस्तु विभङ्गज्ञानसहितो नरकादुद्धृत्य सङ्ख्येयवर्षायुष्केषु तिर्यपञ्चेन्द्रि-18 येषु मध्ये समुत्पद्यमानो वक्ष्यते स महाकायेषूत्पद्यमानो द्रष्टव्यः नाल्पकायेषु, तथाखाभाव्यात्, अन्यथाऽधिकृतसूत्रविरोधः, उत्कृष्टावगाहनतिर्यपञ्चेन्द्रियसूत्रे 'तिहिं नाणेहिं तिहिं अन्नाणेहिं' इति त्रिभिानस्त्रिभिरज्ञानैश्च षट्स्थानपतिताः, तत्र त्रीणि अज्ञानानि कथमिति चेत्, उच्यते, इह यस्य योजनसहस्रं शरीरावगाहना स उत्कृष्टावगाहनः स च सङ्ख्येयवर्षायुष्क एव भवति पर्याप्तश्च, तेन तस्य त्रीणि ज्ञानानि त्रीण्यज्ञानानि च संभवन्ति, स्थित्याऽपि चासावुत्कृष्टावगाहनः त्रिस्थानपतितः, सङ्ख्येयवर्षायुष्कत्वात् , अजघन्योत्कृष्टावगाहनसूत्रे स्थित्या चतुःस्थानपतितः, यतोऽजघन्योत्कृष्टावगाहनोऽसङ्ख्येयवर्षायुष्कोऽपि लभ्यते, तत्रोपपद्यते प्रागुक्तयुक्त्या चतुःस्थानपतितत्वं, जघन्यस्थितिकतिर्यपश्चेन्द्रियसूत्रे द्वे अज्ञाने एव वक्तव्ये न तु ज्ञाने, यतोऽसौ जघन्यस्थितिको लब्ध्यपर्याप्तक एव भवति न च तन्मध्ये सासादनसम्यग्दृष्टेरुत्पाद इति, उत्कृष्टस्थितिकतिर्यकपञ्चेन्द्रियसूत्रे 'दो नाणा दो अन्नाणा' इति, उत्कृष्टस्थितिको हि तिर्यक्रपञ्चेन्द्रियस्त्रिपल्योपमस्थितिको भवति, तस्य च द्वे अज्ञाने तावनियमेन यदा पुनः eacheeeeeeeeeeeeeeee Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy