SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ हनाया अङ्गुलासङ्ख्येयभागप्रमाणाया अपि चतुःस्थानपतितत्वं तदङ्गलासङ्ख्येयभागप्रमाणस्थासङ्ख्येयभेदभिन्नत्वादवसेयं, स्थित्या हीनत्वमभ्यधिकत्वं च त्रिस्थानपतितं न चतुःस्थानपतितं, असङ्ख्येयगुणवृद्धिहान्योरसंभवात् , कथं तयोरसंभव इति चेत् , उच्यते, इह पृथिव्यादीनां सर्वजघन्यमायुः क्षुल्लकभवग्रहणं, क्षुल्लकभवग्रहणस्य च परिमाणमावलिकानां द्वे शते षट्पञ्चाशदधिके, मुहूर्ते च द्विघटिकाप्रमाणे सर्वसङ्ख्यया क्षुल्लकभवग्रहणानां पञ्चषष्टिः सहस्राणि पञ्च शतानि त्रिंशदधिकानि ६५५३६, उक्तं च-"दोन्नि सयाई नियमा छप्पन्नाई पमाणओ इंति । आवलियपमाणण खुड्डागभवग्गहणमेयं ॥१॥ पन्नहिसहस्साई पंचेव सयाई तह य छत्तीसा । खुड्डागभवग्गहणं भवंति एते मुहुतेणं ॥२॥" पृथिव्यादीनां च स्थितिरुत्कर्षतोऽपि सङ्ख्येयवर्षप्रमाणा ततो नासङ्ख्येयगुणवृद्धिहान्योः संभवः, शेषवृद्धिहानित्रिकभावना त्वेवं-एकस्य किल पृथिवीकायस्य स्थितिः परिपूर्णानि द्वाविंशतिवर्षसहस्राणि अपरस्य तान्येव समयन्यूनानि ततः समयन्यूनद्वाविंशतिवर्षसहस्रस्थितिकः परिपूर्णद्वाविंशतिवर्षसहस्रस्थितिकापेक्षयाऽसङ्ख्येयभागहीनः तदपेक्षया वितरोऽसङ्ख्येयभागाधिकः, तथैकस्य परिपूर्णानि द्वाविंशतिवर्षसहस्राणि स्थितिरपरस्य तान्येवान्तमुहूर्त्तादिनोनानि, अन्तर्मुहूर्त्तादिकं(च) द्वाविंशतिवर्षसहस्राणां सङ्ख्येयतमो भागः, ततोऽन्तर्मुहूर्तादिन्यूनद्वाविंशतिवर्षसहस्रस्थितिकः परिपूर्णद्वाविंशतिवर्षसहस्रस्थितिकापेक्षया सङ्ख्येयभागहीनः तदपेक्षया परिपूर्णद्वाविंशतिवर्षसहस्रस्थितिकः सङ्ख्येयभागाभ्यधिकः, तथैकस्य द्वाविंशतिवर्षसहस्राणि स्थितिरपरस्यान्तमुहूर्त मासो वर्षे वर्षसहस्रं वा, cekccestreetstrekseseseseses Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy