________________
कादिषु पट्स्थानपतितत्वं भावनीयं, इह द्रव्यतस्तुल्यत्वं वदता संमूछिमसर्वप्रभेदनिर्भेदबीजं मयूराण्डकरसवदनभिव्यक्तदेशकालक्रम प्रत्यवबद्धविशेषभेदपरिणतेर्योग्यं द्रव्यमित्यावेदितं, अवगाहनया चतुःस्थानपतितत्वमभिवदता क्षेत्रतः सङ्कोचविकोचधा आत्मा न तु द्रव्यप्रदेशसङ्ख्याया इति दर्शितं, उक्तं चैतदन्यत्रापि-"विकसनसङ्कोचनयोन स्तो द्रव्यप्रदेशसङ्ख्यायाः। वृद्धिहासौ स्तः क्षेत्रतस्तु तावात्मनस्तस्मात् ॥१॥" स्थित्या चतुःस्थानपतितत्वं वदताऽऽयुःकर्मस्थितिनिर्वर्तकानामध्यवसायस्थानानामुत्कर्षापकर्षवृत्तिरुपदर्शिता, अन्यथा स्थित्या चतुःस्थानपतितत्वायोगात् , आयुःकर्म चोपलक्षणं तेन सर्वकर्मस्थितिनिवर्तकेष्वप्यध्यवसायेपूत्कर्षापकर्षवृत्तिरवसातव्या, कृष्णादिपर्यायैः षट्-18 स्थानपतितत्वमुपदर्शयता एकस्यापि नारकस्य पर्याया अनन्ताः किं पुनः सर्वेषां नारकाणामिति दर्शितं, अथ नारकाणां पर्यायानन्त्यं पृष्टेन भगवता तदेव पर्यायानन्यं वक्तव्यं न त्वन्यत् ततः किमर्थ द्रव्यक्षेत्रकालभावाभिधानमिति ?, तदयुक्तं, अभिप्रायापरिज्ञानात् , इह न सर्वेषां सर्वे खपर्यायाः समसङ्ख्याः किं तु षट्स्थानपतिताः, एतचानन्तरमेव दर्शितं, तच्च षट्स्थानपतितत्वं परिणामित्वमन्तरेण न भवति, तच्च परिणामित्वं यथोक्तलक्षणस्य द्रव्यस्वेति द्रव्यतस्तुल्यत्वमभिहितं, तथा न कृष्णादिपर्यायैरेव पर्यायवान् जीवः किं तु तत्तत्क्षेत्रसङ्कोचविकोचधर्मतयापि तथा तत्तदध्यवसायस्थानयुक्ततयाऽपीति ख्यापनार्थ क्षेत्रकालाभ्यां चतुःस्थानपतितत्वमुक्तमिति कृतं प्रसङ्गेन । तदेवमवसितं नैरयिकाणां पर्यायानन्त्यं, इदानीमसुरकुमारेषु पर्यायानं पिच्छिषुराह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org