________________
मपवर्णितं 'सबजियाणंतमसंखलोगसंखेजगस्स जेहस्स । भागो तिसु गुणणातिसु' इति, सम्प्रत्यधिकृतसूत्रोक्तपटस्थानपतितत्वं भाव्यते-तत्र कृष्णवर्णपर्यायपरिमाणं तत्त्वतोऽनन्तसङ्ख्यात्मकमप्यसद्भावस्थापनया किल दश सहप्राणि १००००, तस्य सर्वजीवानन्तकेन शतपरिमाणपरिकल्पितेन भागो हियते लब्धं शतं १००, तत्रैकस्य किल नारकस्य कृष्णवर्णपर्यायपरिमाणं दश सहस्राणि, अपरस्य तान्येव शतेन हीनानि ९९००, शतं च सर्वजीवानन्तभागहारलब्धत्वादनन्ततमो भागः, ततो यस्य शतेन हीनानि दश सहस्राणि सोऽपरस्य परिपूर्णदशसहस्रप्रमाणकृष्णव
पर्यायस्य नारकस्यापेक्षयाऽनन्तभागहीनः तदपेक्षया तु सोऽपरः कृष्णवर्णपर्यायोऽनन्तभागाभ्यधिकः, तथा कृष्णवर्णपर्यायपरिमाणस्य दशसहस्रसङ्ख्याकस्यासङ्ख्येयलोकाकाशप्रदेशप्रमाणपरिकल्पितेन पञ्चाशत्परिमाणेन भागहारेण
भागो हियते लब्धे द्वे शते एषोऽसङ्ख्येयतमो भागः, तत्रैकस्य किल नारकस्य कृष्णवर्णपर्याया दशसहस्राणि शतद्व18येन हीनानि ९८०. अपरस्य परिपूर्णानि दश सहस्राणि १००००, तत्र यः शतद्वयहीनदशसहस्रप्रमाण कृष्णवर्णप
यः स परिपूर्णकृष्णवर्णपर्यायनारकापेक्षया असङ्ख्येयभागहीनः परिपूर्णकृष्णवर्णपर्यायस्तु तदपेक्षयाऽसङ्ख्येयभागाभ्यधिकः, तथा तस्यैव कृष्णवर्णपर्यायराशेर्दशसहस्रसङ्ख्याकस्योत्कृष्टसक्येयकपरिमाणकल्पितेन दशकपरिमाणेन भागहारेण भागो हियते तल्लुब्धं सहस्रं एष किल सङ्ख्याततमो भागः, तत्रैकस्य नारकस्य किल कृष्णवर्णपर्यायपरिमाणं नव सहस्राणि ९००० अपरस्य दश सहस्राणि १००००, नव सहस्राणि तु दशसहस्त्रेभ्यः सहस्रेण हीनानि
220002020000000000000
For Personal & Private Use Only
W
Jain Education International
inelibrary.org