SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ ताभिरावलिकाभिरेक उच्छ्वासनिःश्वासकालः सप्तभिरुच्छ्वासनिःश्वासैरेकः स्तोकः सप्तभिः स्तोकैरेको लवः सससप्तत्या | लवानामेको मुहूर्त्तः त्रिंशता मुहूत्तैरहोरात्रः पञ्चदशभिरहोरात्रैः पक्षः द्वाभ्यां पक्षाभ्या मासः द्वादशभिर्मासैः संवत्सरः असङ्ख्येयैः संवत्सरैः पल्योपमसागरोपमाणि, समयाऽऽवलिकोच्छ्वासमुहूर्त्तदिवसाहोरात्रपक्षमाससंवत्सरयुगैः । हीनः परिपूर्णस्थितिकनारकापेक्षयाऽसयेयभागहीनो भवति तदपेक्षया वितरोऽसङ्ख्येयभागाभ्यधिकः, तथा एकस्य त्रयस्त्रिंशत्सागरोपमाणि स्थितिः परस्य तान्येव पल्योपमैन्यूनानि, दशभिश्च पल्योपमकोटीकोटीभिरेकं सागरोपमं निष्पद्यते, ततः पल्योपमैन्यूनस्थितिकः परिपूर्णस्थितिकनारकापेक्षया सङ्ख्येयभागहीनः परिपूर्णस्थितिकस्तु तदपेक्षया सङ्ख्येयभागाभ्यधिकः, तथैकस्य सागरोपममेकं स्थितिः अपरस्य परिपूर्णानि त्रयस्त्रिंशत्सागरोपमाणि, तत्रैक-18 सागरोपमस्थितिकः परिपूर्णस्थितिकनारकापेक्षया सङ्ख्येयगुणहीनः, एकस्य सागरोपमस्य त्रयस्त्रिंशता गुणने परिपू स्थितिकत्वप्राः, परिपूर्णस्थितिकस्तु तदपेक्षया सङ्ख्येयगुणाभ्यधिकः, तथैकस्य दश वर्षसहस्राणि स्थितिः अपरस्य त्रयस्त्रिंशत्सागरोपमाणि, दश वर्षसहस्राण्यसङ्ख्येयरूपेण गुणकारेण गुणितानि त्रयस्त्रिंशत्सागरोपमाणि भवन्ति, ततो दशवर्षसहस्रस्थितिकः त्रयस्त्रिंशत्सागरोपमस्थितिकनारकापेक्षयाऽसङ्ग्येयगुणहीनः तदपेक्षया तु त्रयस्त्रिंशत्सागरोपमस्थितिकोऽसङ्ख्येयगुणाभ्यधिक इति, तदेवमेकस्य नारकस्यापरनारकापेक्षया द्रव्यतो द्रव्यार्थतया प्रदेशार्थतया च । तुल्यत्वमुक्तं क्षेत्रतोऽवगाहनं प्रति हीनाधिकत्वेन चतुःस्थानपतितत्वं कालतोऽपि स्थितितो हीनाधिकत्वेन 92920292920209002099292929 Jain Education International www.jainelibrary.org For Personal & Private Use Only
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy