________________
देशः, द्विप्रदेशत्रिप्रदेशादिकं तु प्रदेशवत् , एतच्च द्रव्यद्वैविध्यं पुद्गलास्तिकाय एव भवति, शेषाणि तु धर्मास्तिकायादीनि | द्रव्याणि नियमात् सप्रदेशानि, ओगाहणट्टयाए सिय हीणे' इत्यादि, नैरयिकोऽसङ्ग्यातप्रदेशोऽपरस्य नैरयिकस्य तुल्यप्र|देशस्य अवगाहनमवगाहः-शरीरोच्छयः अवगाहनमेवार्थोऽवगाहनार्थस्तद्भावोऽवगाहनार्थता तया अवगाहनार्थतया 18'सिय हीणे' इत्यादि, स्थाच्छब्दः प्रशंसाऽस्तित्वविवादविचारणाऽनेकान्तसंशयप्रश्नादिष्वर्थेषु, अत्रानेकान्तद्योतकस्य
ग्रहणं, स्याद्धीनः अनेकान्तेन हीन इत्यर्थः, स्यात्तुल्यः-अनेकान्तेन तुल्य इत्यर्थः, स्यादभ्यधिकः-अनेकान्तेनाभ्यधिक
इति भावः, कथमिति चेत्, उच्यते, यस्माद्वक्ष्यति रत्नप्रभापृथिवीनैरयिकाणां भवधारणीयस्य वैक्रियशरीरस्य जघन्येनाविगाहनाया अङ्गुलस्यासङ्ख्येयो भागः उत्कर्षतः सप्त धनूंषि त्रयो हस्ताः षट् चाङ्गुलानि, उत्तरोत्तरासु च पृथिवीषु द्विगुणं
द्विगुणं यावत् सप्तमनरकपृथिवीनैरयिकाणांजघन्यतोऽवगाहनाऽङ्गुलस्यासङ्ख्येयो भागः उत्कर्षतः पञ्चधनुःशतानीति, तत्र 'जइहीणे' इत्यादि, यदि हीनस्ततोऽसङ्ख्येयभागहीनोवा स्यात् सङ्क्वेयभागहीनो वा सङ्ख्येयगुणहीनो वा स्यात् असहयेयगुणहीनोवा,अथाभ्यधिकस्ततोऽसवेयभागाभ्यधिको वा स्यात्सङ्ख्येयभागाभ्यधिको वा सख्येयगुणाभ्यधिकोवाडसङ्ख्येयगुणाभ्यधिको वा, कथमिति चेत् ?,उच्यते, एकः किल नारक उच्चैस्त्वेन पञ्च धनुःशतानि अपरस्तान्येवामुलासमये, यभागहीनानि, अङ्गलासङ्ख्येयभागश्च पञ्चानां धनुःशतानामसङ्ख्येये भागे वर्त्तते, तेन सोऽङ्गलासयभागहीनपञ्चधनु:शतप्रमाणः अपरस्य परिपूर्णपञ्चधनुःशतप्रमाणस्यापेक्षयाऽसङ्ख्येयभागहीनः, इतरस्त्वितरापेक्षयाऽसङ्ख्येयभागाभ्यधिक:
Join Education International
For Personal & Private Use Only
www.jainelibrary.org