________________
तुल्याः, तेभ्योऽपि दक्षिणपूर्वस्यामुचरपश्चिमाया च प्रत्येक विशेषाधिकाः, खस्थाने तु परस्परं तुल्याः, कथं विशेपाधिका इति चेत् ?, उच्यते, इह सौमनसगन्धमादनेषु सप्त सप्त कुटानि विद्युत्प्रभमाल्यवतोनेव नव, तेषु च । कूटेषु धूमिका अवश्यायादिसूक्ष्मपुद्गलाः प्रभूताः संभवन्ति ततो विशेषाधिकाः, स्वस्थाने तु क्षेत्रस्य पर्वतादेश्च समानत्वात् तुल्याः, तेभ्यः पूर्वस्यां दिशि असङ्ख्येयगुणाः, क्षेत्रस्थासङ्ग्येयगुणत्वात् , तेभ्यः पश्चिमाया विशषाधिकाः, अधोलोकिकग्रामेषु शुषिरभावतो बहूनां पुदलानामवस्थानभावात. दक्षिणेन विशेषाधिकाः, बहुभुवनशुषिरभावात्, तेभ्य उत्तरस्यां दिशि विशेषाधिकाः, यत उत्तरस्यामायामविष्कम्भाभ्यां सङ्ग्येययोजनकोटीकोटीप्रमाणं मानसं सरस्तत्र ये जलचराः पनकसेवालादयश्च सत्त्वास्ते अतिबहव इति तेषां ये तैजसकार्मणपुद्गलास्तेऽधिकाः प्राप्यन्ते इति पूर्वोक्तेभ्यो विशेषाधिकाः॥ तदेवं पुद्गलविषयमल्पबहुत्वमुक्तम, इदानीं सामान्यतो द्रव्यविषयं क्षेत्रानुपातेनाहक्षेत्रानुपातेन चिन्त्यमानानि द्रव्याणि सर्वस्तोकानि त्रैलोक्ये त्रैलोक्यसंस्पर्शानि, यतो धम्मास्तिकायाधम्मास्ति-16 कायाकाशास्तिकायद्रव्याणि पुद्गलास्तिकायस्य महास्कन्धा जीवास्तिकायस्य मारणान्तिकसमुद्घातेनातीव समवहता जीवाः त्रैलोक्यव्यापिनः ते चाल्पे इति सर्वस्तोकानि, तेभ्य ऊर्द्धलोकतिर्यग्लोके-प्रागुक्तखरूपप्रतरद्वयात्मकेऽनन्तगुणानि, अनन्तैः पुद्गलद्रव्यैरनन्तैर्जीवद्रव्यैस्तस्य संस्पर्शात , तेभ्योऽधोलोकतिर्यग्लोके विशेषाधिकानि, ऊर्द्धलोकतिर्यग्लोकादधोलोकतिर्यग्लोकस्य मनाग विशेषाधिकत्वात् , तेभ्य ऊर्द्धलोकेऽसङ्ख्येयगुणानि, क्षेत्रस्यासङ्ख्येयगुण
9929292029290882002ODO2013
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org