________________
weade8000000000000000
इन्द्रियोपयोगस्य लभ्यमानत्वात् , तेभ्योऽनाकारोपयोगोपयुक्ताः सङ्ग्येयगुणाः, इन्द्रियोपयोगेषु नोइन्द्रियोपयोगेषु चानाकारोपयोगस्य लभ्यमानत्वात् , तेभ्यः साकारोपयुक्ताः सङ्ख्येयगुणाः, इन्द्रियोपयोगेषु नोइन्द्रियोपयोगेषु च | साकारोपयोगकालस्य बहुत्वात् , तेभ्यो नोइन्द्रियोपयोगोपयुक्ता विशेषाधिकाः, नोइन्द्रियानाकारोपयुक्तानामपि तत्र प्रक्षेपात् , अत्र विनेयजनानुग्रहार्थमसद्भावस्थापनया निदर्शनमुच्यते-इह सामान्यतः किल साकारोपयुक्ता द्विनवत्यधिकं शतं १९२, ते च किल द्विधा-इन्द्रियसाकारोपयुक्ता नोइन्द्रियसाकारोपयुक्ताश्च, तत्रेन्द्रियसाकारोपयुक्ताः किलातीव स्तोका इति विंशतिसङ्ख्याः कल्प्यन्ते, शेषं द्विसप्तत्युत्तरशतं १७२ नोइन्द्रियसाकारोपयुक्ताः, नोइन्द्रियानाकारोपयुक्ताश्च द्विपञ्चाशत्कल्पाः, ततः सामान्यतः साकारोपयुक्तेभ्यः इन्द्रियसाकारोपयुक्तेषु विंशतिक-18 ल्पेष्वपनीतेषु द्विपञ्चाशत्कल्पेषु अनाकारोपयुक्तेषु तेषु मध्ये प्रक्षिप्तेषु द्वे शते चतुर्विशत्यधिके भवतः, ततः साकारोपयुक्तेभ्यो नोइन्द्रियोपयुक्ता विशेषाधिकाः, तेभ्योऽसातवेदका विशेषाधिकाः, इन्द्रियोपयुक्तानामप्यसातवेदकत्वात् , तेभ्योऽसमवहता विशेषाधिकाः, सातवेदकानामप्यसमवहतत्वभावात् , तेभ्यो जागरा विशेषाधिकाः, सम-18 वहतानामपि केषांचिजागरत्वात् , तेभ्यः पर्याप्ताः विशेषाधिकाः, सुप्तानामपि केषाञ्चित्पर्याप्तत्वात्, सुप्ता हि पर्याप्ता अपि भवन्ति जागरास्तु पर्याप्ता एवेति नियमः, तेभ्योऽपि पर्याप्तेभ्यः आयुःकर्मबन्धकाः विशेषाधिकाः, अपर्याप्तानामप्यायुःकर्मबन्धकत्वभावात्, इदमेवाल्पबहुत्वं विनेयजनानुग्रहाय स्थापनाराशिभिरुपदश्यते-इह द्वे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org