SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Keeeeeeeeeeeeeeeeeee | इहायुःकर्मबन्धकाबन्धकानां पर्याप्तापर्याप्तानां सुप्तजाग्रतां समवहतासमवहतानां सातवेदकासातवेदकानां । इन्द्रियोपयुक्तनोइन्द्रियोपयुक्तानां साकारोपयुक्तानाकारोपयुक्तानां समुदायेनाल्पबहुत्वं वक्तव्यं, तत्र प्रत्येक तावद् ब्रूमः येन समुदायेन सुखेन तदवगम्यते, तत्र सर्वस्तोकाः आयुषो बन्धका अबन्धकाः सङ्ख्येयगुणाः, यतोऽनुभूयमानभवायुषि त्रिभागावशेषे पारभविकमायुर्जीवा बन्नन्ति त्रिभागत्रिभागाद्यवशेषे वा ततो द्वौ त्रिभागावबन्धकाल एकस्त्रिभागो बन्धकाल इति बन्धकेभ्योऽबन्धकाः सङ्ख्येयगुणाः । तथा सर्वस्तोका अपर्याप्तकाः पर्याप्तकाः । सङ्ख्येयगुणाः, एतच सूक्ष्मजीवानधिकृत्य वेदितव्यं, सूक्ष्मेषु हि बाटो व्याघातो न भवति ततस्तद्भावाद् बहूनां निष्पत्तिः स्तोकानामेव चानिष्पत्तिः । तथा सर्वस्तोकाः सुप्ताः, जागराः सङ्ख्येयगुणाः, एतदपि सूक्ष्मानेकेन्द्रियानधिकृत्य वेदितव्यं, यस्मादपर्याप्ताः सुप्ता एव लभ्यन्ते, पर्याप्ता जागरा अपि, [उक्तं च मूलटीकाया-"जम्हा अपजत्ता सुत्ता लब्भंति, केइ अपजत्तगा जर्सि संखिज्जा समया अतीता ते य थोवा इयरेऽवि थोवगा चेव सेसा, जागरा पजत्ता ते संखिजगुणा" इति ] जागराः पर्याप्तास्तेन सङ्ख्येयगुणा इति । तथा समवहताः सर्वस्तोकाः, यत & इह समवहता मारणान्तिकसमुद्घातेन परिगृह्यन्ते, मारणान्तिकश्च समुद्घातो मरणकाले न शेषकालं, तत्रापि न सर्वेषामिति सर्वस्तोकाः,तेभ्योऽसमवहता अस ययगुणाः,जीवनकालस्यातिबहुत्वात् । तथा सर्वस्तोकाः सातवेदकाः, यत इह बहवः साधारणशरीरा अल्पे च प्रत्येकशरीरिणः, साधारणशरीराश्च बहवोऽसातवेदकाः खल्पाः सातवेदिनः तदपि सूक्ष्मानेकेन्द्रियान-1 त, पयोप्सा जागरा अपि, [उक्तं ति, केइ अपज्जत्तगा जो Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy