________________
प्रतरद्वयसंस्पर्शिनः बहवश्चेति पूर्वोक्तेभ्योऽसङ्ख्येयगुणाः, तेभ्यस्त्रैलोक्येऽसङ्ख्येयगुणाः, यतो द्वीन्द्रियाणां प्राचुर्येणोत्पत्तिस्थानान्यधोलोके तस्माचातिप्रभूतानि तिर्यग्लोके, तत्र ये द्वीन्द्रिया अधोलोकादूर्द्ध लोके द्वीन्द्रियत्वेनान्यत्वेन वा समुत्पत्तुकामाः कृतप्रथममारणान्तिकसमुद्घाताः समुद्घातवशाच्चोत्पत्तिदेशं यावत् विक्षिप्तात्मप्रदेशदण्डास्ते द्वीन्द्रियायुः प्रतिसंवेदयमानाः ये चोर्द्धलोकादधोलोके द्वीन्द्रियाः शेषकाया वा यावद् द्वीन्द्रियत्वेन समुत्पद्यमाना द्वीन्द्रियायुरनुभवन्ति ते त्रैलोक्यसंस्पर्शिनः ते च बहव इति पूर्वोक्तेभ्योऽसङ्ख्येयगुणाः, तेभ्योऽधोलोकतिर्यग्लोकप्रतरद्वयरूपेऽसङ्ख्येयगुणाः, यतो येऽधोलोकात्तिर्यग्लोके तिर्यग्लोकाद्वाऽधोलोके द्वीन्द्रियत्वेन समुत्पत्तुकामास्तदायुरनुभवन्त ईलिकागत्या समुत्पद्यन्ते ये च द्वीन्द्रियास्तिर्यग्लोकादधोलोके द्वीन्द्रियत्वेन शेषकायत्वेन वोत्पित्सकः । कृतप्रथममारणान्तिकसमुद्घाता द्वीन्द्रियायुरनुभवन्तः समुद्घातवशेनोत्पत्तिदेशं यावद् विक्षिप्तात्मप्रदेशदण्डास्ते यथोक्तं प्रतरद्वयं स्पृशन्ति प्रभूताश्चेति पूर्वोक्तभ्योऽसङ्ख्येयगुणाः, तेभ्योऽधोलोके सङ्ख्येयगुणाः, तत्रोत्पत्तिस्थानानामतिप्रचुराणां भावात् , तेभ्योऽपि तिर्यग्लोके समवेयगुणाः, अतिप्रचुरतराणां योनिस्थानानां तत्र भावात् , यथेदमौधिकं द्वीन्द्रियसूत्रं तथा पर्याप्तापर्याप्तद्वीन्द्रियसूत्रौधिकत्रीन्द्रियपर्याप्तापयर्याप्सौधिकचतुरिन्द्रियपर्याप्तापर्याप्तसूत्राणि भावनीयानि ॥ साम्प्रतमौधिकपञ्चेन्द्रियविषयमल्पबहुत्वमाहखित्ताणुवाएणं सवत्थोवा पंचिंदिया तेलुक्के उड्डलोयतिरियलोए संखिज्जगुणा अहोलोयतिरियलोए संखिज्जगुणा उड्डलोए
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org