________________
ज्योतिष्कदेवीसूत्रमपि भावनीयं । सम्प्रति वैमानिकदेव विषयमल्पबहुत्वमाह-क्षेत्रानुपातेन' क्षेत्रानुसारेण चिन्त्यमाना वैमानिका देवाः सर्वस्तोकाः ऊर्द्धलोकतिर्यग्लोके-ऊ लोकतिर्यग्लोकसज्ञे प्रतरद्वये, यतो येऽधोलोके तिर्यग्लोके वा वर्तमाना जीवा वैमानिकपुत्पद्यन्ते ये च तिर्यग्लोके वैमानिका गमनागमनं कुर्वन्ति ये च विवक्षितप्रतरद्वयाध्यासितं क्रीडास्थानं संश्रिता ये च तिर्यग्लोकस्थिता एव वैक्रियसमुद्घातं मारणान्तिकसमुद्घातं वा कुर्वाणास्तथाविधप्रयत्नविशेषादूर्द्धमात्मप्रदेशान् निसृजन्ति ते विवक्षितं प्रतरद्वयं स्पृशन्ति ते चाल्पे इति सर्वस्तोकाः,
तेभ्यस्त्रैलोक्ये सङ्ख्येयगुणाः, कथमिति चेत् ?, उच्यते, इह येऽधोलौकिकग्रामेषु समवसरणादिनिमित्तमधोलोके Sवा क्रीडानिमित्तं गताः सन्तो वैक्रियसमुद्घातं मारणान्तिकसमुद्घातं वा कुर्षाणास्तथाविधप्रयत्नविशेषाद् दूरतर
मूर्द्ध विक्षिप्तात्मप्रदेशदण्डा ये च वैमानिकभवादीलिकागत्या व्यवमाना अधोलौकिकग्रामेषु समुत्पद्यन्ते ते किल त्रीनपि लोकान् स्पृशन्ति बहवश्च पूर्वोक्तेभ्य इति सङ्ख्येयगुणाः, तेभ्योऽप्यधोलोकतिर्यग्लोके-अधोलोकतिर्यग्लो-18 कसम्झे प्रतरद्वये सद्ध्येयगुणाः, अधोलौकिकग्रामेषु समवसरणादौ गमनागमनभावतो विवक्षितप्रतरद्वयाध्यासितसमवसरणादौ चावस्थानतो बहूनां यथोक्तप्रतरद्वयसंस्पर्शभावात्, तेभ्योऽधोलोके समवेयगुणाः, अधोलौकिकग्रामेषु बहूनां समवसरणादाववस्थानभावात् , तेभ्यस्तिर्यग्लोके सोयगुणाः, बहुषु समवसरणेषु बहुषु च क्रीडास्था
Eeeeeee
Jain Educational
For Personal & Private Use Only
Sarawwjainelibrary.org