SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Facros89000000000000 प्रतरद्वयं स्पृशन्ति ततः प्रागुक्तेभ्योऽसङ्ख्येयगुणाः, तेभ्यस्त्रैलोक्ये त्रैलोक्यसंस्पर्शिनः सङ्ख्येयगुणाः, यतो ये ऊर्द्धलोके तिर्यपञ्चेन्द्रिया भवनपतित्वेनोत्पत्तुकामा ये च खस्थाने वैक्रियसमुद्घातेन मारणान्तिकप्रथमसमुद्घातेन वा तथाविधतीव्रप्रयत्नविशेषेण समवहतास्ते त्रैलोक्यसंस्पर्शिन इति सङ्ख्येयगुणाः, परस्थानसमवहतेभ्यः खस्थानसमवहतानां सङ्ग्येयगुणत्वात् , तेभ्योऽधोलोकतिर्यग्लोके-अधोलोकतिर्यग्लोकसझे प्रतरद्वयेऽसङ्ख्येयगुणाः, स्वस्थानप्रत्यासन्नतया तिर्यग्लोके गमनागमनभावतः खस्थानस्थितक्रोधादिसमुद्घातगमनतश्च बहूनां यथोक्तप्रतरद्वयसंस्पर्शभावात् , तेभ्यस्तिर्यग्लोकेऽसङ्ख्येयगुणाः, समवसरणादौ वन्दननिमित्तं द्वीपेषु च रमणीयेषु क्रीडानिमित्तमागमनसंभवात् आगतानां च चिरकालमप्यवस्थानात्, तेभ्योऽधोलोकेऽसङ्ख्येयगुणाः, भवनवासिनामधोलोकस्य खस्थानत्वात् । एवं भवनवासिदेवीगतमप्यल्पबहुत्वं भावनीयं । सम्प्रति व्यन्तरगतमल्पबहुत्वमाह-क्षेत्रानुपातेन चिन्त्यमाना व्यन्तराः सर्वस्तोका ऊर्द्धलोके, कतिपयानामेव पण्डकवनादौ तेषां भावात्, तेभ्य ऊर्द्धलोकतिर्यग्लोके प्रतरद्वयरूपेऽसङ्ख्येयगुणाः, केषांचित् खस्थानान्तर्वर्तितया अपरेषां खस्थानप्रत्यासन्नतया अन्येषां बहूनां मन्दरादिषु गमनागमनभावतो यथोक्तप्रतरद्वयसंस्पर्शात्, तेषां समुदायेन चिन्त्यमानानामतिबहुत्वभावात् , तेभ्यस्त्रैलोक्ये सङ्ख्येयगुणाः, यतो लोकत्रयवर्तिनोऽपि व्यन्तरास्तथाविधप्रयत्नविशेषवशतो वैक्रियसमुद्घातेन समवहताः सन्तस्त्रीनपि लोकानात्मप्रदेशैः स्पृशन्ति, ते च प्रागुक्तेभ्योतिबहव इति सङ्ख्येयगुणाः, तेभ्योऽधोलोकतिर्यग्लोके प्रतर cिeracotreeeeeeeeee Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy