________________
प्रज्ञापनायाः मल
य० वृत्ती.
॥१४९॥
● क्षेत्रानुपातेन भवनवासिनो देवाश्चिन्त्यमानाः सर्वस्तोका ऊर्द्धलोके, तथाहि - केषाञ्चित्साधम्र्म्मादिष्वपि कल्पेषु पूर्वसंगतिकनिश्रया गमनं भवति, केषाञ्चिन्मन्दरे तीर्थकरजन्ममहिमानिमित्तमञ्जन दधिमुखेष्वष्टाह्निकानिमित्तमपरेषां मन्दरादिषु क्रीडानिमित्तं गमनमेते च सर्वेऽपि खल्पा इति सर्वस्तोका ऊर्द्धलोके, तेभ्य ऊर्द्धलोकतिर्यग्लोकसज्ञे प्रतरद्वये असङ्ख्यगुणाः, कथमिति चेत् ?, उच्यते, इह तिर्यग्लोकस्था वैक्रियसमुद्घातेन समवहता ऊर्द्धलोकं तिर्यग्लोकं च स्पृशन्ति तथा ये तिर्यग्लोकस्था एव मारणान्तिकसमुद्घातेन समवहता ऊर्द्धलोके सौधर्म्मा| दिषु देवलोकेषु बादरपर्याप्तपृथिवीकायिकतया बादरपर्यासाप्कायिकतया बादरपर्याप्तप्रत्येक वनस्पतिकायिकतया च शुभेषु मणिविधानादिषु स्थानेषूत्पत्तुकामा अद्यापि स्वभवायुः प्रतिसंवेदयमानाः, न पारभविकं पृथिवी कायिकाद्यायुः, द्विविधा हि मारणान्तिकसमुद्घातसमवहताः - केचित्पारभविकमायुः प्रतिसंवेदयन्ते केचिन्नेति तथा चोक्तं प्रज्ञप्तौ – “जीवे णं भंते! मारणंतियसमुग्धाएणं समोहए समोहणित्ता जे भविए मंदरस्स पवयस्स पुरच्छिमेणं वायरपुढविकाइयत्ताए उववज्जित्तए से णं भंते! किं तत्थगए उबवज्जेज्जा उयाहु पडिनियत्तित्ता उववज्जइ १, गोयमा ! अत्थेगइए तत्थगए चेव उववज्जइ अत्थेगइए ततो पडिनियत्तित्ता दोचंपि मारणंतियसमुग्धाएणं समोहणति, समोहणित्ता तओ पच्छा उववजइ" इति, स्वभवायुः प्रतिसंवेदनाच्च ते भवनवासिन एव लभ्यन्ते, ते इत्थंभूता उत्पत्तिदेशे विक्षिप्तात्मप्रदेशदण्डाः तथोर्द्धलोके गमनागमनतस्तत्प्रतरद्वयप्रत्यासन्नक्रीडास्थानतश्च यथोक्तं
Jain Education International
For Personal & Private Use Only
३ अल्प
बहुत्वपदे
विशेषेण
देवानाम
ल्प. सू. ८४
॥१४९॥
www.jainelibrary.org