________________
त्रैलोक्यस्पर्शिन्यः, ऊर्द्धलोकादधोलोके समुत्पित्सूना मारणान्तिकसमुद्घातवशविनिर्गत दूरतरात्मप्रदेशानामथवा वैक्रिय समुद्घातगतानां केवलिसमुद्घातगतानां वा त्रैलोक्य संस्पर्शनात् तासां चातिस्तोकत्वमिति सर्वस्तोकाः, ताभ्य ऊर्द्धलोकतिर्यग्लोके – ऊर्द्धलोकतिर्यग्लोकसञ्ज्ञे प्रतरद्वये सोयगुणाः वैमानिकदेवानां शेषकायाणां चोर्द्ध| लोकात् तिर्यग्लोके मनुष्य स्त्रीत्वेनोत्पद्यमानानां तथा तिर्यग्लोकगतमनुष्य स्त्रीणामूर्द्धलोके समुत्पित्सूनां मारणान्तिकसमुद्घातवशात् दूरतरमूर्द्धविक्षिसात्मप्रदेशानामद्यापि कालमकुर्वन्तीनां यथोक्तप्रतरद्वयसंस्पर्शनभावात् तासां चोभयासामपि बहुतरत्वात्, ताभ्योऽधोलोकतिर्यग्लोके - प्रागुक्तखरूपे प्रतरद्वयरूपे सत्येयगुणाः, तिर्यग्लोकाद् मनुष्य स्त्रीभ्यः शेषेभ्यो वाऽघोलौकिकग्रामेषु यदिवाऽधो लौकिकग्रामरूपात् शेषाद्वा तिर्यग्लोके मनुष्य स्त्रीत्वेनोस्पित्सूनां कासाञ्चिदधो लौकिकग्रामेष्ववस्थानतोऽपि यथोक्तप्रतरद्वय संस्पर्शसंभवात् तासां च प्रागुक्ताभ्योऽतिबहुत्वात्, ताभ्योऽपि ऊर्द्धलोके सङ्ख्येयगुणाः, क्रीडार्थं चैत्यवन्दननिमित्तं वा सौमनसादिषु प्रभूततराणां विद्याधरीणां (गमन) - संभवात्, ताभ्योऽप्यधोलोके सङ्ख्येयगुणाः, स्वस्थानत्वेन तत्रापि बहुतराणां भावात्, ताभ्यस्तिर्यग्लोके सोयगुणाः, क्षेत्रस्य सङ्ख्येयगुणत्वात् स्वस्थानत्वाच्च । गतं मनुष्यगतिमधिकृत्याल्पबहुत्वम्, इदानीं देवगतिमधिकृत्याह - | क्षेत्रानुपातेन चिन्त्यमाना देवाः सर्वस्तोकाः ऊर्द्धलोके, वैमानिकानामेव तत्र भावात् तेषां चाल्पत्वात्, येऽपि भवनपतिप्रभृतयो जिनेन्द्रजन्म महोत्सवादौ मन्दरादिषु गच्छन्ति तेऽपि खल्पा एवेति सर्वस्तोकाः, तेभ्य ऊर्द्धलोकति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org