________________
प्रज्ञापनायाः मल
य० वृत्तौ .
॥ १४७॥
| तेभ्य ऊर्द्धलोकतिर्यग्लो के – ऊर्द्धलोकतिर्यग्लो कस ज्ञकप्रतरद्वय संस्पर्शिनोऽसङ्ख्येयगुणाः, यत इह वैमानिकदेवाः शेषकायाश्च यथासंभवमूर्द्धलोकातिर्यग्लोके मनुष्यत्वेन समुत्पद्यमाना यथोक्तप्रतरद्वयसंस्पर्शिनो भवन्ति विद्याधराणामपि च मन्दरादिषु गमनं तेषां च शुक्ररुधिरादिपुद्गलेषु संमूच्छिम मनुष्याणामुत्पाद इति ते विद्याधरा रुधिरादिपुद्गलसम्मिश्रा यदा गच्छन्ति तदा संमूच्छिममनुष्या अपि यथोक्तप्रतरद्वयसंस्पर्शवन्त उपजायन्ते ते चातिबहव इत्य सोयगुणाः, तेभ्योऽधोलोकतिर्यग्लोके - अधोलोकतिर्यग्लोकसज्ञे प्रतरद्वये सोयगुणाः, यतोऽघोलौकिकग्रामेषु खभावत एव बहवो मनुष्याः, ततो ये तिर्यग्लोकात् मनुष्येभ्यः शेषकायेभ्यो वाऽघोलौकिकग्रामेषु गर्भव्यु - त्क्रान्तिकमनुष्यत्वेन संमूच्छिममनुष्यत्वेन वा समुत्पित्सवो ये चाधोलोकादधोलौकिकग्रामरूपात् शेषाद्वा मनुष्येभ्यः शेषकायेभ्यो वा तिर्यग्लोके गर्भव्युत्क्रान्तिकमनुष्यत्वेन वा संमूच्छिममनुष्यत्वेन वा समुत्पत्तुकामास्ते यथोक्तं किल प्रतरद्वयं स्पृशन्ति बहुतराश्च ते तथा स्वस्थानतोऽपि केचिदधोलौकिकग्रामेषु यथोक्तप्रतरद्वयसंस्पर्शिन इति ते प्रागुक्तेभ्यः सङ्ख्यगुणाः, तेभ्यः ऊर्द्धलोके सङ्ख्येयगुणाः, सौमनसादिक्रीडार्थ चैत्यवन्दननिमित्तं वा प्रभूततराणां विद्याधरचारणमुनीनां ( गमनागमन) भावात् तेषां च यथायोगं रुधिरादिपुद्गलयोगतः संमूच्छिममनुष्यसंभवात्, तेभ्योऽघोलोके सङ्ख्येयगुणाः, स्वस्थानत्वेन बहुत्वभावात्, तेभ्यस्तिर्यग्लोके सोयगुणाः, क्षेत्रस्य सत्येयगुणत्वात् स्वस्थानत्वाच्च । सम्प्रति क्षेत्रानुपातेन मानुषीविषयमल्पबहुत्वमाह — क्षेत्रानुपातेन मानुष्यश्चिन्त्यमानाः सर्वस्तोकाः
Jain Education rational
For Personal & Private Use Only
३ अल्प
बहुत्व पदे गत्यपेक्षयाऽल्प०.
सूत्रं. ८३
॥ १४७॥
www.jainelibrary.org