________________
प्रज्ञापनायाः मल
य० वृत्तौ .
॥१४६॥
कायुः प्रतिसंवेदनान्नारका उद्वर्त्तमाना अपि असलेयाः प्राप्यन्ते इति प्रागुक्तेभ्योऽसङ्ख्येयगुणाः, तेभ्योऽधोलोकेऽसयेयगुणाः, तस्य तेषां स्वस्थानत्वात् । उक्तं नारकगतिमधिकृत्य क्षेत्रानुपातेनाल्पबहुत्वम्, इदानीं तिर्यग्गतिमधिकृत्याह - इदं सर्वमपि सामान्यतो जीवसूत्रमिव भावनीयं, तदपि तिरश्च एव सूक्ष्मनिगोदानधिकृत्य भावितम्, अधुना तिर्यग्योनिकस्त्रीविषयमल्पबहुत्वमाह - क्षेत्रानुपातेन तिर्यग्योनिकस्त्रियश्चिन्त्यमानाः सर्वस्तोकाः ऊर्द्ध लोके, इह मन्दराद्रिवापीप्रभृतिष्वपि हि पञ्चेन्द्रियतिर्यग्योनिकाः स्त्रियो भवन्ति, ताश्च क्षेत्रस्याल्पत्वात् सर्वस्तोकाः, ताभ्य |ऊर्द्धलोकतिर्यग्लोके – ऊर्द्ध लोकतिर्यग्लोकसञ्ज्ञे प्रतरद्वये वर्त्तमानाः असोयगुणाः, कथमिति चेत् १, उच्यते, | यावत्सहस्रारदेवलोकस्तावद्देवा अपि गर्भव्युत्क्रान्तिकतिर्यक्पञ्चेन्द्रिययोनिषूत्पद्यन्ते किं पुनः शेषकायाः १, ते हि यथासंभवमुपरिवर्त्तिनोऽपि तत्रोत्पद्यन्ते, ततो ये सहस्रारान्ता देवा अन्येऽपि च शेषकाया ऊर्द्धलोकातिर्यग्लोके - तिर्यक्पञ्चेन्द्रियस्त्रीत्वेन तदायुः प्रतिसंवेदयमाना उत्पद्यन्ते यास्तिर्यग्लोकवर्त्तिन्यस्तिर्यक्पञ्चेन्द्रियस्त्रिय ऊर्द्धलोके देवत्वेन शेषकायत्वेन चोत्पद्यमाना मारणान्तिकसमुद्घातेनोत्पत्तिदेशे निजनिजात्मप्रदेशदण्डान् विक्षिपन्ति ता यथोक्तं प्रतरद्वयं स्पृशन्ति तिर्यग्योनिकस्त्रियश्च तास्ततोऽसोयगुणाः, क्षेत्रस्यासत्येयगुणत्वात्, ताभ्यस्त्रैलोक्ये सङ्ख्येयगुणाः यस्मादधोलोकात् भवनपतिव्यन्तरनारकाः शेषकाया अपि चोर्द्धलोकेऽपि तिर्यक्पञ्चेन्द्रियस्त्रीत्वेनोत्पद्यन्ते ऊर्द्धलोकाद् देवादयोऽप्यधोलोके च ते समवहता निजनिजात्मप्रदेशदण्डैखीनपि लोकान् स्पृशन्ति प्रभूताश्च
Jain Education International
For Personal & Private Use Only
३ अल्प
बहुत्वपदे गत्यपेक्ष
याऽल्प०
सूत्रं. ८३
॥१४६॥
Cainelibrary.org