________________
एणं सवत्थोवाओ देवीओ उड्डलोए उडलोयतिरियलोए असंखेजगुणाओ तेलोक्के संखेजगुणाओ अहोलोयतिरियलोए संखेजगुणाओ अहोलोए संखेजगुणाओ तिरियलोए संखेज्जगुणाओ (सू० ८३) 'क्षेत्रानुपातेन' क्षेत्रानुसारेण नैरयिकाश्चिन्त्यमानाः सर्वस्तोकास्त्रैलोक्ये-लोकत्रयसंस्पर्शिनः, कथं लोकत्रयसं-18 स्पर्शिनो नैरयिकाः कथं वा ते सर्वस्तोकाः इति चेत ?, उच्यते. इह ये मेरुशिखरे अञ्जनदधिमुखपर्वतशिखरा दिषु वा वापीषु वर्तमाना मत्स्यादयो नरकेत्पित्सव ईलिकागत्या प्रदेशान् विक्षिपन्ति ते किल त्रैलोक्यमपि स्पृशन्ति नारकव्यपदेशं च लभन्ते तत्कालमेव नरकेषूत्त्पत्तेर्नारकायुष्कप्रतिसंवेदनात् , ते चेत्थंभूताः कतिपये इति सर्वस्तोकाः, अन्ये तु व्याचक्षते-नारका एव यथोक्तवापीषु तिर्यकपञ्चेन्द्रियतयोत्पद्यमानाः समुद्घातवशतो विक्षिसनिजात्मप्रदेशदण्डाः परिगृह्यन्ते, ते हि किल तदा नारका एव निर्विवादं, तदायुष्कप्रतिसंवेदनात् , त्रैलोक्यसंस्पशिनश्च, यथोक्तवापीर्यावदात्मप्रदेशदण्डस्य विक्षिप्तत्वादिति. तेभ्योऽधोलोकतिर्यग्लोके-अधोलोकतिर्यग्लोकसञ्जप्रागुक्तप्रतरद्वयस्य संस्पर्शिनोऽसङ्ख्येयगुणाः, यतो बहवोऽसङ्ख्येयेषु द्वीपसमुद्रेषु पञ्चेन्द्रियतिर्यग्योनिका नरकेषूत्पद्यमाना यथोक्तं प्रतरद्वयं स्पृशन्ति ततो भवन्ति पूर्वोक्तेभ्योऽसङ्ख्येयगुणाः, क्षेत्रस्यासङ्ख्यातगुणत्वात् , मन्दरादिक्षेत्रादसङ्ख्येयद्वीपसमुद्रात्मकं क्षेत्रमसङ्ख्येयगुणमित्यतो भवन्त्यसङ्ख्येयगुणाः, अन्ये त्वभिदधति-नारका एवासङ्ख्येयेषु द्वीपसमुद्रेषु तिर्यकपञ्चेन्द्रियतयोत्पद्यमाना मारणान्तिकसमुद्घातेन विक्षिप्तनिजात्मप्रदेशदण्डा द्रष्टव्याः, ते हि नार
Jain Education
Lonal
For Personal & Private Use Only
W
inelibrary.org