________________
प्रज्ञापनायाः मलय० वृत्तौ.
३ अल्पबहुत्वपदे क्षेत्रानुसावल्पब० सू.८२
॥१४४॥
के तिर्यग्लोकादू लोके (च) समुत्पद्यमाना विवक्षितं प्रतरद्वयं स्पृशन्ति ये च तत्रस्था एव केचन तत्प्रतरद्वयाध्यासिनो वर्त्तन्ते ते किल विवक्षिते प्रतरद्वये वर्तन्ते, नान्ये, ये पुनरू लोकादधोलोके समुत्पद्यमानास्तत्प्रतरद्वयं स्पृशन्ति ते न गण्यन्ते, तेषां सूत्रान्तरविषयत्वात् , ततः स्तोका एवाधिकृतप्रतरद्वयवर्त्तिनो जीवाः, ननूर्द्धलोकगतानामपि सर्वजीवानामसङ्ख्येयो भागोऽनवरतं म्रियमाणोऽवाप्यते, ते च तिर्यग्लोके समुत्पद्यमाना विवक्षितं प्रतरद्वयं स्पृशन्तीति कथमधिकृतप्रतरद्वयसंस्पर्शिनः स्तोकाः, तदयुक्तं, वस्तुतत्त्वापरिज्ञानात्, तथाहि-यद्यपि नामोद्धलोकगतानां सर्वजीवानामसङ्ख्येयो भागोऽनवरतं नियमाणोऽवाप्यते तथापि न ते सर्व एव तिर्यग्लोके समुत्पद्यन्ते, प्रभूततराणामधोलोके ऊर्द्वलोके च समुत्पादात् , ततोऽधिकृतप्रतरद्वयवर्तिनः सर्वस्तोका एव, तेभ्योऽधोलोकतिर्यग्लोके विशेषाधिकाः, इह यदधोलोकस्योपरितनमेकप्रादेशिकमाकाशप्रदेशप्रतरं यच तिर्यग्लोकस्य सर्वाधस्तनमेकप्रादेशिकमाकाशप्रदेशप्रतरमेतद्वयमप्यधोलोकतिर्यग्लोक इत्युच्यते. तथाप्रवचनप्रसिद्धेः, तत्र ये विग्रहगत्या तत्र|स्थतया वा वर्तन्ते ते विशेषाधिकाः, कथमिति चेत्, उच्यते, इह येऽधोलोकात्तिर्यग्लोके तिर्यग्लोकाद्वाऽधोलोके ईलिकागत्या समुत्पद्यमाना अधिकृतप्रतरद्वयं स्पृशन्ति ये च तत्रस्था एव केचन तत्प्रतरद्वयमध्यासीना वर्तन्ते ते
| विवक्षितप्रतरद्वयवर्तिनो, ये पुनरधोलोकार्द्धलोके समुत्पद्यमानास्तत्प्रतरद्वयं स्पृशन्ति ते न परिगृह्यन्ते, तेषां सूत्रान्तरविषयत्वात् , केवलमूर्द्धलोकादधोलोके विशेषाधिका इत्यधोलोकात्तिर्यग्लोके समुत्पद्यमाना ऊ लोकापेक्षया
॥१४४॥
Jain Education
Monal
For Personal & Private Use Only
h
tinelibrary.org