________________
प्रज्ञापना
याः मल
य० वृत्ती.
॥१४३॥
इह येषा चरमो भवः संभवी योग्यतयाऽपि ते चरमा उच्यन्ते, ते चार्थात् भव्याः, इतरे अचरमा - अभव्याः सिद्धाश्च, उभयेषामपि चरमभवाभावात्, तत्र स्तोका अचरमाः, अभव्यानां सिद्धाना च समुदितानामप्यजघन्योत्कृष्टयुक्तानन्तकपरिमाणत्वात्, तेभ्योऽनन्तगुणाश्चरमाः, अजघन्योत्कृष्टानन्तानन्तक परिमाणत्वात् ॥ गतं चरमद्वारम्, अधुना जीवद्वारमाह
एएसि णं भंते ! जीवाणं पोग्गलाणं अद्धासमयाणं सङ्घदवाणं सवपएसाणं सङ्घपजवाण य कयरे कयरेहिंतो अप्पा वा बहुया वातुल्ला वा विसेसाहिया वा १, गोयमा ! सवत्थोवा जीवा पोग्गला अनंतगुणा अद्धासमया अनंतगुणा सङ्घदवा विसेसाहिया सवपसा अनंतगुणा सङ्घपञ्जवा अणंतगुणा । दारं । ( सू० ८१ )
सर्वस्तोका जीवाः, तेभ्यः पुद्गला अनन्तगुणाः, तेभ्योऽद्धासमया अनन्तगुणाः, अत्र भावना प्रागेव कृता, तेभ्योऽद्धासमयेभ्यः सर्वद्रव्याणि विशेषाधिकानि, कथमिति चेत्, उच्यते, इह येऽनन्तरमद्धासमयाः पुद्गलेभ्योऽनन्तगुणा उक्तास्ते प्रत्येकं द्रव्याणि ततो द्रव्यचिन्तायां तेऽपि परिगृह्यन्ते तेषु च मध्ये सर्वजीवद्रव्याणि सर्वपुद्गल - द्रव्याणि धर्म्माधर्म्माकाशास्तिकायद्रव्याणि च प्रक्षिप्यन्ते तानि च समुदितान्यप्यद्धासमयानामनन्तभागकल्पानीति - तेषु प्रक्षिप्तेष्वपि मनागधिकत्वं जातं इत्यद्धासमयेभ्यः सर्वद्रव्याणि विशेषाधिकानि, तेभ्यः सर्वप्रदेशा अनन्तगुणाः,
Jain Education International
For Personal & Private Use Only
३ अल्प
बहुत्वपदे चरमजीवद्वारे स्. ८०-८१
॥१४३॥
www.jainelibrary.org