SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ लपरमाणूनामिव स्कन्धत्वायोगात् , अद्धासमयास्तु परस्परनिरपेक्षा एव, वर्तमानसमयभावे पूर्वापरसमययोरभावात् , ततो न स्कन्धत्वपरिणामः, तद्भावाच नाद्धासमयाः प्रदेशाः, किंतु पृथग द्रव्याण्येवेति ॥ सम्प्रत्यमीषां धर्मास्तिकायादीनां सर्वेषां युगपत् द्रव्यार्थप्रदेशार्थतयाऽल्पबहुत्वमाह-धर्मास्तिकायोऽधर्मास्तिकाय आकाशास्तिकाय एते त्रयोऽपि द्रव्यार्थतया तुल्याः सर्वस्तोकाश्च, प्रत्येकमेकसङ्ख्याकत्वात् , तेभ्यो धर्मास्तिकायोऽधर्मास्ति-19 | काय एतौ द्वावपि प्रदेशार्थतयाऽसङ्ख्येयगुणौ, खस्थाने तु परस्परं तुल्यौ, ताभ्यां जीवास्तिकायो द्रव्यार्थतयाऽनन्त-18 गुणः, अनन्तानां जीवद्रव्याणां भावात् , स एव जीवास्तिकायः प्रदेशार्थतयाऽसङ्ख्येयगुणः, प्रतिजीवमसङ्खयेयानां प्रदेशानां भावात् , तस्मादपि प्रदेशार्थतया जीवास्तिकायात पुद्गलास्तिकायो द्रव्यार्थतयाऽनन्तगुणः, प्रतिजीवप्रदेश ज्ञानावरणीयादिकमपुद्गलस्कन्धानामप्यनन्तानां भावात् , स एव पुद्गलास्तिकायः प्रदेशार्थतयाऽसङ्ख्येयगुणः, अत्र भावना प्रागिव, तस्मादपि प्रदेशार्थतया पुद्गलास्तिकायात् अद्धासमयो द्रव्यार्थप्रदेशार्थतयाऽनन्तगुणः, अत्रापि भावना प्रागिव, तस्मादप्याकाशास्तिकायः प्रदेशार्थतया अनन्तगुणः, सर्वाखपि दिक्षु तस्यान्ताभावात् , अद्धासमयस्य च मनुष्यक्षेत्रमात्रभावात् ॥ गतमस्तिकायद्वारम् , इदानीं चरमद्वारमाह एएसि णं भंते ! जीवाणं चरिमाणं अचरिमाण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सबथोवा जीवा अचरिमा चरिमा अर्णतगुणा । दारं । (मू०८०) Jain Education For Personal & Private Use Only M ainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy