SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ येषु सङ्ख्याततमभागवर्त्तिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणत्वात्तेषां, तेभ्यो बादरवनस्पतिकायिकाः पर्याप्ता अनन्तगुणाः, प्रतिवादरैकैकनिगोदमनन्तानां जीवानां भावात् , तेभ्यः सामान्यतो बादरपर्याप्तका विशेषाधिकाः, बादरतेजःकायिकादीनामपि पर्याप्तानां तत्र प्रक्षेपात् । गतं तृतीयमल्पबहुत्वम् , इदानीमेतेषामेव पर्याप्तापर्याप्तगतान्यल्पबहुत्वान्याह-एएसिणं भंते ! बायराणं पजत्तापजत्ताणं' इत्यादि, इह बादरैकैकपर्याप्तनिश्रया असङ्ख्येया बादरा अपर्याप्ता उत्पद्यन्ते, 'पजत्तगनिस्साए अपजत्तगा वक्कमंति, जत्थ एगो तत्थ नियमा असंखेजा' इति वचनात् , ततः सर्वत्र पर्याप्तेभ्योऽपर्याप्ता असजयेयगुणा वक्तव्याः, त्रसकायिकसूत्रं प्रागुक्तयुक्त्या भावनीयं । गतं चतुर्थमल्पबहुत्वम् , सम्प्रत्येतेषामेव समुदितानां पर्याप्तापर्याप्तानां पञ्चममल्पबहुत्वमाह-'एएसि णं भंते ! बायराणं बायरपुढवीकाइयाणं' इत्यादि, सर्वस्तोका बादरतेजःकायिकाः पर्याप्तकाः तेभ्यो बादरत्रसकायिकाः पर्याप्सा असङ्ख्येयगुणाः तेभ्यो बादरत्रसकायिका अपर्याप्ता असत्येयगुणाः तेभ्यो बादरप्रत्येकवनस्पतिकायिकाः पर्याप्सा असक्वेयगुणाः तेभ्यो बादरनिगोदाः पर्याप्तका असङ्ख्येयगुणाः तेभ्यो बादरपृथिवीकायिकाः पर्याप्तका असङ्ख्येयगुणाः तेभ्यो बादराप्कायिकाः पर्याप्तका असत्येयगुणाः तेभ्यो बादरवायुकायिकाः पर्याप्ता असङ्ख्येयगुणाः, एतेषु पदेषु युक्तिःप्रागुक्ताऽनुसरणीया, तेभ्यो बादरतेजःकायिका अपर्याप्तका असङ्ख्येयगुणाः, यतो बादरवायुकायिकाः पर्याप्ताः असङ्ख्येयेषु प्रतरेषु यावन्त आकाशप्रदेशास्तावत्प्रमाणाः, बादरतेजःकायिकाश्चापर्याप्ता असङ्ख्येयलोकाकाशप्रदेशप्रमाणाः, ततो भवन्त्यस 9202929202000909829092029292 Join Educati o nal For Personal & Private Use Only A gainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy