________________
| तेउकाइयाणं पजत्तगाणं ठाणा तत्थेव बायरतेउकाइयाणं अपजत्तगाणं ठाणा पन्नत्ता" इति, बादरवनस्पतिकायिकास्तु त्रिष्वपि लोकेषु भवनादिषु, तथा चोक्तं तस्मिन्नेव द्वितीये स्थानाख्ये पदे - “ कहि णं भंते ! बायरवणस्सइकाइयाणं पज्जत्तगाणं ठाणा पन्नत्ता ?, गोयमा ! सट्टाणेणं सत्तसु घणोदहिसु सत्तसु घणोदहिवलयेसु अहोलोए पाया| लेसु भवणेसु भवणपत्थडेसु उहलोए कप्पेसु विमाणेसु विमाणावलियासु विमाणपत्थडेसु तिरियलोए अगडेसु तलाएसु नदीसु दहेसु वाविसु पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु बिलेसु बिलपंतियासु उज्झरेसु निज्झरेसु चिल्लले पललेसु वष्पिणेसु दीवेसु समुद्देसु सधेसु चैव जलासएसु जलठाणेसु, एत्थ णं बायरवणएसइकाइयाणं पज्जत्तगाणं ठाणा पन्नत्ता" तथा " जत्थेव बायरवणस्सइकाइयाणं पज्जत्तगाणं ठाणा तत्थेव बायरवणस्सइकाइयाणं अपज्जत्तगाणं ठाणा पन्नत्ता" इति, ततः क्षेत्रस्यासङ्ख्येयगुणत्वादुपपद्यन्ते वादरतेजःकायिकेभ्योऽसोयगुणाः प्रत्येकशरीरवादरवनस्पतिकायिकाः, तेभ्यो बादरनिगोदा असङ्ख्येयगुणाः, तेषामत्यन्तसूक्ष्मावगाहनत्वात् जलेषु सर्वत्रापि च भावात्, पनकसेवालादयो हि जलेऽवश्यंभाविनः ते च वादरानन्तकायिका इति, तेभ्योऽपि बादरपृथिवीकायिका असङ्ख्येयगुणाः, अष्टासु पृथिवीषु सर्वेषु विमानभवनपर्वतादिषु भावात् तेभ्योऽसङ्ख्येयगुणा वादराप्कायिकाः, समुद्रेषु जलप्राभूत्यात्, तेभ्यो बादरवायुकायिका असश्येयगुणाः, सुषिरे सर्वत्र वायुसंभवात्, तेभ्यो वादरवनस्पतिकायिका अनन्तगुणाः, प्रतिवादरनिगोदमनन्तानां जीवानां भावात्, तेभ्यः सामा
Jain Education international
For Personal & Private Use Only
www.janelibrary.org