________________
प्रज्ञापनायाः मलय० वृत्ती.
A ॥१०॥
१प्रज्ञापनापदे रूप्यजीवप्रज्ञा.(सू.४)
कक्खडफासपरिणया मउयफासपरिणया गुरुयफासपरिणता लहुयफासपरिणया सीयफासपरिणया उसिणफासपरिणया णिद्धफासपरिणया लुक्खफासपरिणया, जे सण्ठाणपरिणया ते पञ्चविहा पं०तं०-परिमण्डलसण्ठाणपरिणया वट्टसण्ठाणपरि० तंससण्ठाणप० चउरंससं०प० आयतसण्ठाणपरिणया ।
ये वर्णपरिणतास्ते पञ्चविधाः प्रज्ञप्ताः, तद्यथा-कृष्णवर्णपरिणताः कजलादिवत् , नीलवर्णपरिणता नील्यादिवत् , लोहितवर्णपरिणता हिमुलकादिवत्, हारिद्रवर्णपरिणता हरिद्रादिवत् , शुक्लवर्णपरिणताः शङ्खादिवत् । ये गन्धपरिणतास्ते द्विविधाः प्रज्ञप्ताः, तद्यथा-सुरभिगन्धपरिणताश्च दुरभिगन्धपरिणताश्च, चशब्दौ परिणामभवनं प्रति विशेषाभावख्यापनार्थों, तथाहि-यथा कथञ्चिदवस्थिताः सामग्रीवशतः सुरभिगन्धपरिणाम भजन्ते तथा कथञ्चिदवस्थिता एव सामग्रीवशतो दुरभिगन्धपरिणाममपीति, सुरभिगन्धपरिणताश्च यथा श्रीखण्डादयः, दुरभिगन्धपरिणता लसुनादिवत् । ये रसपरिणतास्ते पञ्चविधाः प्रज्ञप्ताः, तद्यथा-तिक्तरसपरिणताः कोशातक्यादिवत्, कटुकरसपरिणताः सुण्ठ्यादिवत् , कषायरसपरिणता अपक्ककपित्थादिवत् ,अम्लरसपरिणता अम्लवेतसादिवत् , मधुररसपरिणताः शर्करादिवत् । ये स्पर्शपरिणतास्तेऽष्टविधाः प्रज्ञप्ताः, तद्यथा-कर्कशस्पर्शपरिणताः पाषाणादिवत्, मृदुस्पर्शपरिणता हंसरुतादिवत् ,गुरुकस्पर्शपरिणताः वज्रादिवत् , लघुकस्पर्शपरिणता अर्कतूलादिवत् ,शीतस्पर्शपरिणता मृणालादिवत्, उष्णस्पर्शपरिणता वह्नयादिवत्, स्निग्धस्पर्शपरिणता घृतादिवत, रूक्षस्पर्शपरिणता भस्मादिवत् । ये संस्थानप
॥१०॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org