________________
विभागाः, अत्रापि बहुवचनमनन्तानन्तप्रादेशिकेषु तथाविधेषु स्कन्धेषु देशानन्तत्वसम्भावनार्थम्, स्कन्धानां स्कन्धत्वपरिणामपरिणतानां बुद्धिपरिकल्पिताः प्रकृष्टा देशा निर्विभागा भागाः परमाणव इत्यर्थः स्कन्धप्रदेशाः, अत्रापि बहुवचनं प्रदेशानन्तत्वसम्भावनार्थम्, 'परमाणुपुद्गला इति' परमाश्च तेऽणवश्च परमाणवो निर्विभागद्रव्यरूपाः ते च ते पुद्गलाश्च परमाणुपुद्गलाः, स्कन्धत्वपरिणामरहिताः केवलाः परमाणव इत्यर्थः । 'ते समासओ' इत्यादि, ते स्कन्धादयो यथासम्भवं 'समासतः' सङ्क्षेपेण पञ्चविधाः प्रज्ञप्ताः, तद्यथा- 'वर्णपरिणताः' वर्णतः परिणताः, वर्णपरिणाम भाज इत्यर्थः, एवं गन्धपरिणता रसपरिणताः स्पर्शपरिणताः संस्थानपरिणताः परिणता इत्यतीतकालनिर्देशो वर्त्तमानानागतकालोपलक्षणं, वर्त्तमानानागतत्वमन्तरेणातीतत्वस्यासम्भवात्, तथाहि - यो वर्तमानत्वमतिक्रान्तः सोऽतीतो भवति, वर्त्तमानत्वं च सोऽनुभवति योऽनागतत्वमतिक्रान्तवान्, उक्तं च - " भवति स नामातीतो यः प्राप्तो नाम वर्त्तमानत्वम् । एष्यंश्च नाम स भवति यः प्राप्स्यति वर्त्तमानत्वम् ॥ १ ॥” ततो वर्णपरिणता इति वर्णरूपतया परिणताः परिणमन्ति परिणमिष्यन्तीति द्रष्टव्यम्, एवं गन्धरसपरिणता इत्याद्यपि परिभावनीयम् ।
जे वण्णपरिणया ते पश्चविद्या पन्नत्ता, तंजहा - कालवण्णपरिणया नीलवण्णप० लोहियवण्णप० हालिद्दवण्णप० सुकिल्लवण्णपरिणया, जे गन्धपरिणता ते दुविहा पं० तं०- सुब्भिगन्धपरिणता य दुब्भिगन्धपरिणता य, जे रसपरिणता ते पञ्चविहा पं० तं०-तितरसपरिणता कडुयरसपरिणता कसायरसपरिणया अम्बिलरसपरिणता महुरसपरिणया, जे फासपरिणता ते अढविहा पं०सं०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org