________________
प्रज्ञापना
याः मलय० वृत्तौ .
॥ ९॥
"
ततो यावति क्षेत्रेऽवगाढौ तावत्प्रमाणो लोकः शेषस्त्वलोक इति सिद्धम् उक्तं च- " धर्माधर्मविभुत्वात् सर्वत्र च | जीवपुद्गलविचारात् । नालोकः कश्चित्स्यान्न च सम्मतमेतदार्याणाम् ॥ १ ॥ तस्माद्धर्माधर्माववगाढौ व्याप्य लोकखं सर्वम् । एवं हि परिच्छिन्नः सिध्यति लोकस्तदविभुत्वात् ॥ २ ॥” ततः एवं लोकालोकव्यवस्थाहेतु धर्माधर्मास्तिकायावित्यनयोरादावुपादानम्, तत्रापि माङ्गलिकत्वात् प्रथमतो धर्मास्तिकायस्य, तत्प्रतिपक्षत्वात् ततोऽधर्मास्तिकायस्य, ततो लोकालोकव्यापित्वादाकाशास्तिकायस्य, तदनन्तरं लोके समयासमयक्षेत्रव्यवस्थाकारित्वादद्धासमयस्य, एवमागमानुसारेणान्यदपि युक्त्यनुपाति वक्तव्यम्, इत्यलं प्रसङ्गेन । प्रकृतोपसंहारमाह - 'सेत्तं अरूविअजीवपन्नवणा' सैषा अरूप्यजीवप्रज्ञापना ॥ पुनराह विनेयः -
से किं तं रूविअजीवपन्नवणा ?, रूविअजीव पन्नवणा चउव्विहा पन्नत्ता, तंजहा - खन्धा खन्धदेसा खन्धपएसा परमाणुपोग्गला, ते समासओ पञ्चविहा पन्नत्ता, तंजहा - वण्णपरिणया गन्धपरिणया रसपरिणया फासपरिणया सण्ठाणपरिणया ।
अथ का सा रूप्यजीव प्रज्ञापना १, सूरिराह-रूप्यजीवप्रज्ञापना चतुर्विधा प्रज्ञप्ता, तद्यथा - 'स्कन्धाः' स्कन्दन्ति शुव्यन्ति धीयन्ते च - पुष्यन्ते पुद्गलानां विचटनेन चटनेन चेति स्कन्धाः, 'पृषोदरादय' इति रूपनिष्पत्तिः, अत्र बहुवचनं पुद्गलस्कन्धानामानन्त्यख्यापनार्थम्, न चानन्त्यमनुपपन्नम्, आगमेऽभिधानात् तथा च वक्ष्यति - 'दबओ णं पुग्गलत्थिकाए' इत्यादि, 'स्कन्धदेशाः ' स्कन्धानामेव स्कन्धत्वपरिणाममजहतो बुद्धिपरिकल्पिता व्यादिप्रदेशात्मका
Jain Education sonal
For Personal & Private Use Only
१ प्रज्ञाप नापदे अ रूप्यजी
वप्रज्ञा.
(सू. ३)
॥९॥
ainelibrary.org