SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापना- मेणैव भावनीयं । अधुना अमीषामेव सूक्ष्मादीनां प्रत्येकं पर्याप्तापर्याप्तगतान्यल्पबहुत्वान्याह-एएसि णं भंते! सुहु-18 ३ अल्पयाः मल- माणं पजत्तापजत्ताणं' इत्यादि, इह बादरेषु पर्याप्तेभ्योऽपर्याप्ता असङ्ख्येयगुणाः, एकैकपर्याप्तनिश्रयाऽसङ्ख्येयाना- बहुत्वपदे य० वृत्तौ. मपर्याप्तानामुत्पादात्, तथा चोक्तं प्राक प्रथमे प्रज्ञापनाख्य पदे-"पजत्तगनिस्साए अपजत्तगा बकमंति, जत्थ सूक्ष्का॥१२५॥ एगो तत्थ नियमा असंखेजा” इति, सूक्ष्मेषु पुनर्नायं क्रमः, पर्याप्ताश्चापर्याप्सापेक्षया चिरकालावस्थायिन इति ल्पब० सदैव ते बहवो लभ्यन्ते, तत उक्तं सर्वस्तोकाः सूक्ष्मा अपर्याप्ताः, तेभ्यः सूक्ष्माः पर्याप्तकाः सङ्ख्येयगुणाः, एवं पृथि- | सू. ६० |वीकायिकादिष्वपि प्रत्येकं भावनीयम् । गतं चतुर्थमल्पबहुत्वम् , इदानीं सर्वेषा समुदितानां पर्याप्तापर्याप्तगतं पञ्चममल्पबहुत्वमाह-एएसि णं भंते ! सुहुमाणं सुहुमपुढविकाइयाणं' इत्यादि, सर्वस्तोकाः सूक्ष्मतेजःकायिका अपर्याप्साः, कारणं प्रागेवोक्तं, तेभ्यः सूक्ष्मपृथिवीकायिका अपर्यासा विशेषाधिकाः तेभ्यः सूक्ष्माप्कायिका अपर्याप्सा विशेपाधिकाः तेभ्यः सूक्ष्मवायुकायिका अपर्याप्सा विशेषाधिकाः, अत्रापि कारणं प्रागेवोक्तं, तेभ्यः सूक्ष्मतेजःकायिकाः पर्याप्ताः सङ्ख्येयगुणाः, अपर्याप्तेभ्यो हि पर्याप्ताः सङ्ख्येयगुणा इत्यनन्तरं भावितं, तत्र सर्वस्तोकाः सूक्ष्मतेजःकायिका अपर्याप्ता उक्ताः इतरे च सूक्ष्मापर्याप्तपृथिवीकायिकादयो विशेषाधिकाः, विशेषाधिकत्वं च मनागधिकत्वं न द्विगुणत्वं न त्रिगुणत्वं वा, ततः सूक्ष्मतेजःकायिकेभ्योऽपर्याप्तेभ्यः पर्याप्ताः सूक्ष्मतेजःकायिकाः सङ्ख्येयगुणाः सन्तः Miसूक्ष्मवायुकायिकापर्याप्तेभ्योऽपि सङ्ख्येयगुणा भवन्ति, तेभ्यः सूक्ष्मपृथिवीकायिकाः पर्याप्ताः विशेषाधिकाः तेभ्यः ॥१२५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy