SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ सूक्ष्माप्कायिकाः पर्याप्ता विशेषाधिकाः तेभ्योऽपि सूक्ष्मवायुकायिकाः पर्याप्ता विशेषाधिकाः तेभ्यः सूक्ष्मनिगोदाः अपर्याप्ता असङ्ख्येयगुणाः, तेषामतिप्राचुर्यात् , तेभ्यः सूक्ष्मनिगोदाः पर्याप्ताः सङ्ख्येयगुणाः, सूक्ष्मेष्वपर्याप्तेभ्यः पर्याप्तानामोघतः सङ्ख्येयगुणत्वात् , तेभ्यः सूक्ष्मवनस्पतिकायिका अपर्याप्तका अनन्तगुणाः, प्रतिनिगोदमनन्तानां तेषां भावात् , तेभ्यः सामान्यतः सूक्ष्मा अपर्याप्तका विशेषाधिकाः, सूक्ष्मपृथिवीकायिकादीनामपि तत्र प्रक्षेपात् , तेभ्यः सूक्ष्मवनस्पतिकायिकाः पर्याप्तकाः सङ्ख्येयगुणाः, सूक्ष्मेषु ह्यपर्याप्तेभ्यः पर्याप्तकाः सङ्ख्येयगुणाः, यच्चापान्तराले विशेषाधिकत्वं तदल्पमिति न सङ्ख्येयगुणत्वव्याघातः, तेभ्यः सूक्ष्माः पर्याप्तका विशेषाधिकाः, सूक्ष्मपृथिव्यादीनामपि पर्याप्तानां तत्र प्रक्षेपात्, तेभ्यः सूक्ष्मा विशेषाधिकाः, अपर्याप्तानामपि तत्र प्रक्षेपात् । तदेवमुक्तानि सूक्ष्माश्रितानि पञ्च सूत्राणि, सम्प्रति बादराश्रितानि पञ्चोक्तक्रमणाभिधित्सुराहएएसिणं भंते ! बादराणं बादरपुढविकाइयाणं बादरआउकाइयाणं बादरतेउकाइयाणं बादरवाउकाइयाणं बादरवणस्सइकाइयाणं पत्तेयसरीरबादरवणस्सइकाइयाणं बादरनिगोदाणं बादरतसकाइयाणं कयरे कयरेहितो अप्पा वा ४ १, गोयमा ! सव्वत्थोवा बादरतसकाइया बादरतेउकाइया असंखेजगुणा पत्तेयसरीरबादरवणस्सइकाइया असंखेजगुणा बादरनिगोदा असंखेजगुणा बादरा पुढवी० असंखे० बादरा आउकाइया असं० बादरा वाउकाइया असंखे० बादरा वणस्स० अणंतगुणा बादरा विसेसाहिया । एएसिणं भंते ! बादरपुढविकाइयअपजत्तगाणं बादरआउअपजत्तगाणं बादरतेउअपज Jan Education Hall For Personal & Private Use Only Finelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy