SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ त्रविमानदर्शनतः समुत्पन्नजातिस्मरणाः किश्चिद् व्रतं प्रतिपद्यानशनादि च कृत्वा कृतनिदानास्तत्रोत्पद्यन्ते ततोभवन्ति उत्तराहा दाक्षिणात्येभ्यो विशेषाधिकाः ॥ तथा सौधर्मे कल्पे सर्वस्तोकाः पूर्वस्यां पश्चिमायां च दिशि वैमानिका देवाः, यतो यान्यावलिकाप्रविष्टानि विमानानि तानि चतसृष्वपि दिक्ष तुल्यानि, यानि पुनः पुष्पावकीर्णानि तानि प्रभूतानि असङ्ख्येययोजनविस्तृतानि, तानि च दक्षिणस्यामुत्तरस्यां दिशि नान्यत्र, ततः सर्वस्तोकाः पूर्वस्यां पश्चिमायां च दिशि, तेभ्य उत्तरस्यां दिशि असलयेयगुणाः, पुष्पावकीर्णकविमानानां बाहुल्यात् असङ्ख्येययोजन(विस्तृतत्वाच्च, तेभ्योऽपि दक्षिणस्यां दिशि विशेषाधिकाः, कृष्णपाक्षिकाणां प्राचुर्येण तत्र गमनात् । एवमीशानसनत्कुमारमाहेन्द्रकल्पसूत्राण्यपि भावनीयानि । ब्रह्मलोककल्पे सर्वस्तोकाः पूर्वोत्तरपश्चिमदिग्भाविनो देवाः, यतो बहवः कृष्णपाक्षिकास्तिर्यग्योनयो दक्षिणस्यां दिशि समुत्पद्यन्ते शुक्लपाक्षिकाश्च स्तोका इति पूर्वोत्तरपश्चिमदिग्भा(विनः सर्वस्तोकाः, तेभ्यो दक्षिणस्यां दिशि असङ्खयेयगुणाः, कृष्णपाक्षिकाणां बहूनां तत्रोत्पादात् । एवं लान्तकशुक्रसहस्रारसूत्राण्यपि भावनीयानि । आनतादिषु पुनर्मनुष्या एवोत्पद्यन्ते, तेन प्रतिकल्पं प्रतिवेयकं प्रत्यनुत्तरविमानं चतसृषु दिक्षु प्रायो बहुसमा वेदितव्याः, तथा चाह-'तेण परं बहुसमोववन्नगा समणाउसो !' इति ॥ सर्वस्तोकाः सिद्धा दक्षिणस्यामुत्तरस्यां च दिशि, कथमिति चेत् ?, उच्यते, इह मनुष्या एव सिद्ध्यन्ति, नान्ये, मनुष्या अपि सिद्यन्तो येष्वाकाशप्रदेशेष्विह चरमसमयेऽवगाढास्तेष्वेवाकाशप्रदेशेषूर्वमपि गच्छन्ति तेष्वेव चोप Jain EducAXLE For Personal & Private Use Only A liainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy