________________
Rekeeeeeeeeeeeeeeeees
शेषासु दिक्षु, यत उक्तं-"पायमिह कूरकम्मा भवसिद्धियावि दाहिणिल्लेसुं । नेरइयतिरियमणुयासुराइठाणेसु गच्छन्ति ॥१॥" ततो दक्षिणस्यां दिशि बहूनां कृष्णपाक्षिकाणामुत्पादसम्भवात् पूर्वोक्तकारणद्वयाच सम्भवन्ति पूर्वोत्तरपश्चिमदिग्विभागभाविभ्यो दाक्षिणात्या असङ्खयेयगुणाः। यथा च सामान्यतो नैरयिकाणां दिग्विभागेनाल्पबहुत्वमुक्तं, एवं प्रतिपृथिव्यपि वक्तव्यं, युक्तेः सर्वत्रापि समानत्वात् । तदेवं प्रतिपृथिव्यपि दिग्विभागेनाल्पबहुत्वमभिहितं, इदानीं सप्तापि पृथिवीरधिकृत्य दिग्विभागेनाल्पबहुत्वमाह-सप्तमपृथिव्यां पूर्वोत्तरपश्चिमदिग्भाविभ्यो नैरयिकेभ्यो ये सप्तमपृथिव्यामेव दाक्षिणात्यास्तेऽसङ्खयेयगुणाः, तेभ्यः षष्ठपृथिव्यां तमः:प्रभाभिधानायां पूर्वोत्तरप|श्चिमदिग्भाविनोऽसङ्खयेयगुणाः, कथमिति चेद् ?, उच्यते, इह सर्वोत्कृष्टपापकारिणः सज्ञिपञ्चेन्द्रियतिर्यग्मनुष्याः सप्तमनरकपृथिव्यामुत्पद्यन्ते, किञ्चिहीनहीनतरपापकर्मकारिणश्च षष्ठयादिषु पृथिवीषु, सर्वोत्कृष्टपापकर्मकारिणश्च सर्वस्तोकाः बहवश्च यथोत्तरं किञ्चिद्धीनहीनतरादिपापकर्मकारिणः ततो युक्तमसङ्खयेयगुणत्वं सप्तमपृथिवीदाक्षिणा-SI त्यनारकापेक्षया षष्ठपृथिव्यां पूर्वोत्तरपश्चिमनारकाणां, एवमुत्तरोत्तरपृथिवीरप्यधिकृत्य भावयितव्यम् , तेभ्योऽपि तस्यामेव षष्ठपृथिव्यां दक्षिणस्यां दिशि नारका असङ्खयेयगुणाः, युक्तिरत्र प्रागेवोक्ता, तेभ्योऽपि पञ्चमपृथिव्यां । धूमप्रभाभिधानायां पूर्वोत्तरपश्चिमदिग्भाविनोऽसङ्खयेयगुणाः, तेभ्योऽपि तस्यामेव पञ्चमपृथिव्यां दाक्षिणात्या असङ्खये१ प्राय इह क्रूरकर्माणो भवसिद्धिका अपि दाक्षिणात्येषु । नैरयिकतिर्यग्मनुष्यासुरादिस्थानेषु गच्छन्ति ॥ १॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org