________________
कानामल्पबहुत्वं, इदानीमप्कायिकानामल्पबहुत्वमाह-सर्वस्तोका अप्कायिकाः पश्चिमायां दिशि, गौतमद्वीपस्थाने तेषामभावात् , तेभ्योऽपि विशेषाधिकाः पूर्वस्यां दिशि, गौतमद्वीपाभावात् , तेभ्योऽपि विशेषाधिका दक्षिणस्यां दिशि, चन्द्रसूर्यद्वीपाभावात् , तेभ्योऽप्युत्तरस्यां दिशि विशेषाधिकाः, मानससरःसद्भावात् ॥ तथा दक्षिण-18 स्थामुत्तरस्यां च दिशि सर्वस्तोकास्तेजःकायिकाः, यतो मनुष्यक्षेत्रे एव बादरास्तेजःकायिका नान्यत्र, तत्रापि यत्र बहवो मनुष्यास्तत्रैते बहवः, बाहुल्येन पाकारम्भसम्भवात् , यत्र त्वल्पे तत्र स्तोकाः, तत्र दक्षिणस्यां दिशि पञ्चसु भरतेषु उत्तरस्यां दिशि पञ्चखैरावतेषु क्षेत्रस्याल्पत्वात् स्तोका मनुष्याः, तेषां स्तोकत्वेन तेजःकायिका अपि स्तोकाः, अल्पपाकारम्भसम्भवात् , ततः सर्वस्तोका दक्षिणोत्तरयोर्दिशोस्तेजःकायिकाः, खस्थाने तु प्रायः समानाः, तेभ्यः पूर्वस्यां दिशि सङ्खयेयगुणाः, क्षेत्रस्य सङ्खयेयगुणत्वात् , ततोऽपि पश्चिमायां दिशि विशेषाधिकाः, अधोलौकिकग्रामेषु मनुष्यबाहुल्यात् ॥ इह यत्र सुषिरं तत्र वायुः यत्र घनं तत्र वाय्वभावः, तत्र पूर्वस्यां दिशि प्रभूतं घनमित्यल्पा वायवः, पश्चिमायां दिशि विशेषाधिकाः, अधोलौकिकग्रामसम्भवात् , उत्तरस्यां दिशि विशेषाधिकाः, भवननरकावासबाहुल्येन सुषिरबाहुल्यात् , ततोऽपि दक्षिणस्यां दिशि विशेषाधिकाः, उत्तरदिगपेक्षया दक्षिणस्यां दिशि भवनानां नरकावासानां चातिप्रभूतत्वात् ॥ तथा यत्र प्रभूता आपस्तत्र प्रभूताः पनकादयोऽनन्तकायिका वनस्पतयः प्रभूताः शङ्खादयो द्वीन्द्रियाः प्रभूताः पिण्डीभूतसेवालायाश्रिताः कुन्थ्वादयस्त्रीन्द्रियाः प्रभूताः पद्माद्याश्रिता
Jain Education D
enal
For Personal & Private Use Only
alwalrainelibrary.org