________________
प्रज्ञापनायाः मलयवृत्तौ.
३ अल्प| बहुत्वपदे पृथ्व्याद्यल्पबहुत्वं सू. ५६
॥११६॥
कथमिति चेद् ?, उच्यते, इह यत्र घनं तत्र बहवः पृथिवीकायिकाः यत्र सुषिरं तत्र स्तोकाः, दक्षिणस्यां दिशि बहूनि भवनपतीनां भवनानि बहवो नरकावासास्ततः सुषिरप्राभूत्यसंभवात् सर्वस्तोका दक्षिणस्यां दिशि पृथिवीकायिकाः, तेभ्य उत्तरस्यां दिशि विशेषाधिकाः, यत उत्तरस्यां दिशि दक्षिणदिगपेक्षया स्तोकानि भवनानि स्तोका नरकावासाः, ततो घनप्राभूत्यसंभवात् बहवः पृथिवीकायिका इति विशेषाधिकाः, तेभ्योऽपि पूर्वस्यां दिशि विशेपाधिकाः, रविशशिद्वीपानां तत्र भावात्, तेभ्योऽपि पश्चिमायां दिशि विशेषाधिकाः, किं कारणमिति चेत् ?, उच्यते, यावन्तो रविशशिद्वीपाः पूर्वस्यां दिशि तावन्तः पश्चिमायामपि, न तु एतावता साम्यं, परं लवणसमुद्रे | गौतमनामा द्वीपः पश्चिमायामधिकोऽस्ति, तेन विशेषाधिकाः, अत्र पर आह-ननु यथा पश्चिमायां दिशि गौतमद्वीपोऽभ्यधिकः समस्ति, तथा तस्यां पश्चिमायां दिशि अधोलौकिकग्रामा अपि योजनसहस्रावगाहाः सन्ति, ततः खातपूरितन्यायेन तत्र तुल्या एव पृथिवीकायिकाः प्राप्नुवन्ति न विशेषाधिकाः, नैतदेवं, यतोऽधोलौकिकग्रामावगाहो योजनसहस्रं, गौतमद्वीपस्य पुनः षट्सप्तत्यधिकं योजनसहस्रमुच्चैस्त्वं, विष्कम्भस्तस्य द्वादश योजनसहस्राणि, यञ्च मेरोरारभ्याधोलौकिकमामेभ्योऽर्वाक हीनत्वं हीनतरत्वं तत् पूर्वस्यामपि दिशि प्रभूतग दिसंभवात् समानं, ततो यद्यधोलौकिकग्रामच्छिद्रेषु बुझ्या गौतमद्वीपः प्रक्षिप्यते तथापि स समधिक एव प्राप्यते न तल्य इति तेन समधिकेन विशेषाधिकाः पश्चिमायां दिशि पृथिवीकायिकाः॥ उक्तं दिगनुपातेन पृथिवीकायि
॥११६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org