SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाया: मल य० वृत्तौ . ॥ ११२ ॥ आह - 'बुद्धा' इति, अज्ञाननिद्राप्रसुते जगत्यपरोपदेशेन जीवादिरूपं तत्त्वं बुद्धवन्तो बुद्धाः, सर्वज्ञसर्वदर्शिखभावबोधरूपा इति भावः, एतेऽपि च संसारनिर्वाणोभयपरित्यागेन स्थितवन्तः कैश्चिदिष्यन्ते - " संसारे न च निर्वाणे, स्थितो भुवनभूतये । अचिन्त्यः सर्वलोकानां, चिन्तारत्नाधिको महान् ॥ १ ॥” इति वचनात् ततस्तन्निरासार्थमाह - 'पारगता' इति, पारं - पर्यन्तं संसारस्य प्रयोजनत्रातस्य वा गताः पारगताः, तथाभव्यत्वाक्षिप्तसकलप्रयोजनसमात्या निरवशेषकर्तव्यशक्तिविप्रमुक्ता इति भावः, इत्थंभूता अपि कैश्चिद् यदृच्छावादिभिरक्रमसिद्ध| त्वेनापि गीयन्ते, तथोक्तम् — “नैकादिसंख्याक्रमतो, वित्तप्राप्तिर्नियोगतः । दरिद्रराज्यातिसमा, तद्वन्मुक्तिः कचिन्न किम् ? ॥१॥" ततस्तन्मतव्यपोहाय 'परम्परागता' इति परम्परया - ज्ञानदर्शनचारित्ररूपया मिध्यादृष्टिसासादन - सम्यग्मिथ्यादृष्ट्य अविरतसम्यग्रडष्टिदेशविरतिप्रमत्ताप्रमत्त निवृत्त्यनिवृत्तिवादर संपरायसूक्ष्मसंपरायोपशान्तमोहक्षीणमोहसयोगिकेवल्ययोगिकेवलिगुणस्थानभेदभिन्नया गताः परम्परागताः, एते च कैश्चित् तत्त्वतोऽनुन्मुक्त कर्मक| वचा अभ्युपगम्यन्ते 'तीर्थनिकार दर्शनादिहागच्छन्ति' इति वचनतः पुनः संसारावतरणाभ्युपगमात्, अतस्तन्मतापाकरणार्थमाह - 'उन्मुक्त कर्मकवचाः' उत् - प्राबल्येनापुनर्भवरूपतया मुक्तं परित्यक्तं कर्म कवचमिव कर्मकवचं | यैस्ते उन्मुक्त कर्मकवचाः, अत एवाजराः शरीराभावतो जरसोऽभावात् अमरा अशरीरत्वादेव प्राणत्यागासंभवात्, Jain Educatictional For Personal & Private Use Only २ स्थानपदे सिद्धाधिकारः सू. ५४ ॥ ११२ ॥ jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy