SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ सरिउमारद्धो, रन्ना विसजिओ, तत्तो रन्निगा पुच्छंति-'केरिसं नयरंति' ?, सो वियाणंतोऽवि तत्थोवमाभावा न सक्कइ नयरगुणे परिकहेउं । एस दिलुतो, अयमर्थोपनयः-'इय सिद्धाणं' इत्यादि, इत्येवं सिद्धानां सौख्यमनुपम वर्तते, किमिति?, तत आह-यतो नास्ति तस्यौपम्यं, तथाऽपि बालजनप्रतिपत्तये किञ्चिद् विशेषेण 'इतो' इति आर्षत्वाद् अस्येत्यर्थः, सादृश्यमिदं वक्ष्यमाणं शृणुत-'जह सव्व' इत्यादि, यथेत्युदाहरणोपदर्शनार्थः, भुज्यते इति भोजनं 'सर्वकामगुणितं' सकलसौन्दर्यसंस्कृतं कोऽपि पुरुषो भुक्त्वा क्षुत्तइविप्रमुक्तः सन् यथा अमृततृप्तस्तथा तिष्ठति, 'इय' इत्यादि, एवं निर्वाणं-मोक्षमुपगताः सिद्धाः सर्वकालं-साद्यपर्यवसितं कालं तृप्ताः-सर्वथौत्सुक्यविनिवृत्तिभावतः परमसंतोषमधिगता अतुलम्-अनन्यसदृशमुपमाऽतीतत्वात् शाश्वतं प्रतिपाताभावात् अव्याबाधं लेशतोऽपि व्याबाधाया असंभवात् सुखं प्राप्ता अत एव सुखिनः तिष्ठन्तीति ॥ एतदेव सविशेषतरं भावयति'सिद्धत्ति य' इत्यादि, सितं-बद्धमष्टप्रकारं कर्म ध्मातं-भस्मीकृतं यस्ते सिद्धाः “पृषोदरादयः” इति रूपनिष्पत्तिः, निर्दग्धानेकभवकर्मेन्धना इत्यर्थः, ते च सामान्यतः कर्मादिसिद्धा अपि भवन्ति, यत उक्तम्-'कम्मे सिप्पे य विजाए, मंते जोगे य आगमे । अत्यजत्ताअभिप्पाए, तवे कम्मक्खए इय ॥१॥" ततः कर्मादिसिद्धव्यपोहाय १ स्मर्तुमारब्धः, राज्ञा विसृष्टः, तत आरण्यकाः पृच्छन्ति-कीदृशं नगरमिति ?, स विजानन्नपि तत्रोपमाभावाद् न शक्नोति नगरगुणान् परिकथयितुं एष दृष्टान्तः ॥२ कर्मणि शिल्पे च विद्यायां मत्रे योगे चागमे । अर्थे यात्रायामभिप्राये तपसि कर्मक्षये इति ॥ १ ॥ Jain Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy