SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मलयवृत्ती. २ स्थानपदे सिद्धाधिकारःसू.५४ ॥११०॥ भवन्ति, अवगाढप्रदेशानामसंख्यातत्वात् , आह च-"एगखेत्तेऽणता पएसपरिवुढिहाणिओ तत्तो । हुंति असंखेजगुणाऽसंखपएसो जमवगाढो ॥१॥" सम्प्रति सिद्धानेव लक्षणतः प्रतिपादयति-'असरीरा' इत्यादि, अविद्यमानशरीरा अशरीरा औदारिकादिपञ्चविधशरीररहिता इत्यर्थः, जीवाश्च ते घनाश्च वदनोदरादिशुषिरपूरणात् जीवधना उपयुक्ता दर्शने-केवलदर्शने ज्ञाने च-केवलज्ञाने यद्यपि सिद्धत्वप्रादुर्भावसमये केवलज्ञानमिति ज्ञानं प्रधानं तथाऽपि सामान्यसिद्धलक्षणमेतदिति ज्ञापनार्थमादौ सामान्यावलम्बनं दर्शनमुक्तं, तथा च सामान्यविषय दर्शनं विशेषविषयं ज्ञानमिति, ततः साकारानाकारं सामान्यविशेषोपयोगरूपमित्यर्थः, सूत्रे मकारोऽलाक्षणिको, लक्षणं-तदन्यव्यावृत्तिखरूपमेतत्-अनन्तरोक्तं, तुशब्दो वक्ष्यमाणनिरुपमसुखविशेषणार्थ, सिद्धानां-निष्ठितार्थानामिति । सम्प्रति केवलज्ञानकेवलदर्शनयोरशेषविषयतामुपदर्शयति-'केवलनाणुवउत्ता' इत्यादि, केवलज्ञानेनोपयुक्ता न त्वन्तःकरणेन तदभावादिति केवलज्ञानोपयुक्ता जानन्ति-अवगच्छन्ति सर्वभावगुणभावान्-सवेपदार्थगुणपोयान्, प्रथमो भावशब्दः पदार्थवचनः द्वितीयः पर्यायवचनः, गुणपर्याययोस्त्वयं विशेषः-सहवर्तिनो गुणाः क्रमवर्तिनः पर्याया इति, तथा पश्यन्ति सर्वतः खल-खलशब्दस्यावधारणार्थत्वात् सर्वत एव, केवलष्टिमिरनन्ताभिः, अनन्तैः केवलदर्शनैरित्यर्थः, केवलदर्शनानां चानन्तता सिद्धानामनन्तत्वात् , इहादी ज्ञानग्रहणं प्रथम १ एकक्षेत्रेऽनन्ताः प्रदेशपरिवृद्धिहानितस्तस्मात् । भवन्त्यसंख्येयगुणाः असंख्यप्रदेशो यदवगाढः ॥ १॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy