________________
तया तदुपयोगस्थाः सिध्यन्तीति ज्ञापनार्थ ॥ सम्प्रति निरुपमसुखभाजस्ते इति दर्शयति-'नवि अत्यि' इत्यादि, नैवास्ति मनुष्याणां चक्रवादीनामपि तत्सौख्यं, नैवास्ति सर्वदेवानामनुत्तरपर्यन्तानामपि यत् सिद्धानां सौख्यमव्याबाधामुपगतानां-न विविधाऽऽबाधा अव्याबाधा तां उप-सामीप्येन गतानां-प्रासानां ॥ यथा नास्ति तथा भङ्गयोपदर्शयति-'सुरगणसुहं' इत्यादि, 'सुरगणसुखं' देवसंघातसुखं 'समस्तं' संपूर्णमतीतानागतवर्तमानकालोद्भवमित्यर्थः, पुनः 'सर्वाद्धापिण्डितं' सर्वकालसमयगुणितं तथाऽनन्तगुणमिति, तदेवंप्रमाणं किलासत्कल्पनया एकैकाकाशप्रदेशे स्थाप्यते इत्येवं सकलाकाशप्रदेशपूरणेन यद्यप्यनन्तं भवति तदनन्तमप्यनन्तैर्वगैर्गितं तथाऽप्येवं प्रकर्षगतमपि मुक्तिसुखं-सिद्धिसुखं न प्राप्नोति ॥ एतदेव स्पष्टतरं भजयन्तरेण प्रतिपादयति-'सिद्धस्स सुहो रासी' इत्यादि, सुखानां राशिः सुखराशिः-सुखसंघातः सिद्धस्य सुखराशिः सिद्धसुखराशिः 'सर्वाद्धापिण्डित' सर्वयासाद्यपर्यवसितया अद्धया, यत्सुखं सिद्धः प्रतिसमयमनुभवति तदेकत्र पिण्डीकृतमिति भावः, सोऽनन्तवर्गभक्तःअनन्तैर्वर्गमूलैरपवर्तितः, अनन्तैर्वर्गमूलैः तावदपवर्तितो यावत् सर्वाद्धालक्षणेन गुणकारेण गुणने यदधिकं जातं तस्य सर्वस्याप्यपवर्तनः सिद्धत्वाद्यसमयभाविसखमात्रतां प्राप्त इति भावः, सर्वाकाशे न माति-एतावन्मात्रोऽपि सर्वाकाशे न माति सर्वस्तु दुरापास्तप्रसर एवेति ज्ञापनार्थ पिण्डयित्वा पुनरपवर्तनं सुखराशेः, इयमत्र भावना-इह |किल विशिष्टाहादरूपं सुखं परिगृह्यते. ततश्च यत आरभ्य शिष्टानां सुखशब्दप्रवृत्तिस्तमाहादमवधिकृत्य एकैकगुण
Receeeeeacररररर
Jain Educati
o nal
For Personal & Private Use Only
V
anelibrary.org