________________
संसिरपरिपूरणाओ पुवागारनहाववत्थाओ । संठाणमणित्थंत्थं जं भणियमणिययागारं ॥१॥ एत्तोचिय पडिसेहो सिद्धाइगुणेसु दीहयाईणं । जमणित्थंथं पुवागाराविक्खाए नाभावो ॥२॥" नन्वेते सिद्धाः परस्परं देशभेदेन व्यवस्थिता उत नेति !, नेति तद् ब्रूमः, कस्मादिति चेत् , 'जत्थ य' इत्यादि, यत्रैव देशे चशब्दस्य एवकारार्थत्वात् एकः सिद्धो-निवृतस्तत्रानन्ता भवक्षयविमुक्ताः, अत्र भवक्षयग्रहणेन खेच्छया भवावतरणशक्तिमत्सिद्धव्यवच्छेदमाह, अन्योऽन्यसमवगाढाः, तथाविधाचिन्त्यपरिणामत्वात् , धर्मास्तिकायादिवत्, तथा स्पृष्टा-लग्नाः सर्वेऽपि लोकान्ते । 'फुसई' इत्यादि, स्पृशत्यनन्तान् सिद्धान् सर्वप्रदेशैरात्मसंबन्धिभिर्नियमशः सिद्धः, तथा तेऽपि | सिद्धाः सर्वप्रदेशस्पृष्टेभ्योऽसंख्येयगुणा वर्तन्ते ये देशप्रदेशैः स्पृष्टाः, कथमिति चेत्, उच्यते, इहैकस्य सिद्धस्य यदवगाहनक्षेत्रं तत्रैकस्मिन्नपि परिपूर्णेऽवगाढा अन्येऽप्यनन्ताः सिद्धाः प्राप्यन्ते, अपरे तु ये तस्य क्षेत्रस्यैकैकं प्रदेश-| माक्रम्यावगाढास्तेऽपि प्रत्येकमनन्ताः, एवं द्वित्रिचतुःपञ्चादिप्रदेशवृद्धा येऽवगाढास्तेऽपि प्रत्येकमनन्ताः, तथा तस्य मूलक्षेत्रस्यैकैकं प्रदेशं परित्यज्य येऽवगाढास्तेऽपि प्रत्येकमनन्ताः, एवं द्वित्रिचतुःपञ्चादिप्रदेशहान्या येऽवगाढास्तेऽपि प्रत्येकमनन्ताः, एवं सति प्रदेशपरिवृद्धिहानिभ्यां ये समवगाढास्ते परिपूर्णकक्षेत्रावगाढेभ्योऽसंख्येयगुणा
१ शुषिरपरिपूरणात् पूर्वाकारान्यथाव्यवस्थातः । संस्थानमनित्थंस्थं यद्भणितमनियताकारात् ॥१॥ इत एव प्रतिषेधः सिद्धादिगुणेषु दीर्घत्वादीनाम् । यदनित्थंस्थं पूर्वाकारापेक्षया नाभावः ॥२॥
Jain Educational
For Personal & Private Use Only
arvog