________________
प्रज्ञापना- चित्तारि रयणीओ' इत्यादि, चतस्रो रत्नयो रनिश्च त्रिभागोना च सा बोद्धव्या एषा खलु सिद्धानामवगाहना | २ स्थानयाः मल- भणिता मध्यमा । आह-जघन्यपदे सप्तहस्तोच्छ्रितानामागमे सिद्धिरुक्ता, तत एषा जघन्या प्राप्नोति, कथं
पदे सियवृत्ती. मध्यमा ?, तदयुक्तं, वस्तुतत्वापरिज्ञानात् , जघन्यपदे हि सप्तहस्तानां सिद्धिरुक्ता तीर्थकरापेक्षया, सामान्यकेव
द्धाधिकालिनां तु हीनप्रमाणानामपि भवति, इदमपि चावगाहनामानं चिन्त्यते सामान्यसिद्धापेक्षया, ततो न कश्चिद्दोषः।
र:सू.५४ ॥१०९॥
'एगा य होइ' इत्यादि, एका रतिः परिपूर्णा अष्टौ चाङ्गुलान्यधिकानि एषा भवति सिद्धानामवगाहना जघन्या, |सा च कूर्मापुत्रादीनां द्विहस्तानामवसेया, यदिवा सप्तहस्तोच्छूितानामपि यन्त्रपीलनादिना संवर्तितशरीराणां, आह च भाष्यकृत्-"जेट्ठा उ पंचधणुसयतणुस्स मज्झा य सत्तहत्थस्स । देहत्तिभागहीणा जहनिया जा बिहत्थस्स ॥१॥ सत्तूसियएसु सिद्धी जहन्नओ कहमिहं बिहत्थेसु ? । सा किर तित्थयरेसुं सेसाणं सिज्झमाणाणं ॥२॥ ते पुण होज बिहत्था कुम्मापुत्तादयो जहन्नेणं । अन्ने संवट्टियसत्तहत्थसिद्धस्स हीणत्ति ॥३॥" साम्प्रतमुक्तानुवादेनैव संस्थानलक्षणं सिद्धानामभिधित्सुराह-ओगाहणाओ' इत्यादि, सुगम, नवरं 'अनित्थंथं' इति इदंप्रकारमापन्नमित्थं इत्थं तिष्ठतीति इत्थंस्थं न इत्थंस्थं अनित्थंस्थं वदनादिशुषिरप्रतिपूरणेन पूर्वाकारान्यथाभावतोऽनियताकारमिति भावः, योऽपि च सिद्धादिगुणेषु 'सिद्धे न दीहे न हस्से' इत्यादिना दीर्घत्वादीनां प्रतिषेधः कृतः सोऽपि पूर्वाकारापेक्षया संस्थानस्यानित्थंस्थत्वात् प्रतिपत्तव्यो, न पुनः सर्वथा संस्थानस्याभावतः, आह च भाष्यकृत्
Fo9000980900999900000
॥१०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org