________________
भवन्ति प्राणिनः कर्मवशवर्तिनोऽस्मिन्निति भव-शरीरं त्यजतः-परित्यजतः, काययोगं परिजिहानस्येति भावः,
चरमसमये सूक्ष्मक्रियाप्रतिपातिध्यानवलेन वदनोदरादिरन्ध्रपूरणात् त्रिभागेन हीनं प्रदेशघना कतहिं तस्स' इति तदेव च प्रदेशघनं मूलप्रमाणापेक्षया त्रिभागहीनप्रमाणं संस्थानं तत्र-लोकांग्रे तस्य-सिद्धस्य,
नान्यदिति ॥ साम्प्रतमुत्कृष्टावगाहनादिभेदभिन्नामवगाहनामभिधित्सराह-'तिन्नि सया तेत्तीसा' इत्यादि, त्रीणि शतानि त्रयस्त्रिंशानि-त्रयस्त्रिंशदधिकानि धनस्त्रिभागश्च भवति बोद्धव्या, एषा खलु सिद्धानामुत्कृष्टावगाहना भणिता तीर्थकरगणधरैः, सा च पञ्चधनु शततनुकानामवसेया, ननु मरुदेवी नाभिकुलकरपत्नी, नाभेश्च पश्चर्विशत्यधिकानि पञ्चधनु शतानि शरीरप्रमाणं, यदेव च तस्य शरीरमानं तदेव मरुदेवाया अपि, 'संघयणं संठाणं | उच्चत्तं चेव कुलगरेहि सम' इति वचनात् , मरुदेवी भगवती च सिद्धा, ततस्तस्या देहमानस्य त्रिभागे पातिते सिद्धावस्थायाः सार्धानि त्रीणि धनुःशतान्येवावगाहना प्राप्नोति, कथमुक्तप्रमाणा उत्कृष्टावगाहना घटते ? इति, नैष दोषः, मरुदेवाया नाभेः किञ्चिदूनप्रमाणत्वात्, स्त्रियो झुत्तमसंस्थाना उत्तमसंस्थानेभ्यः पुरुषेभ्यः खखकालापेक्षया किञ्चिदूनप्रमाणा भवन्ति, ततो मरुदेवाऽपि पञ्चधनु शतप्रमाणेति न कश्चिद्दोषः, अपिच-हस्तिस्कन्धा-18 धिरूढा संकुचिताङ्गी सिद्धा ततः शरीरसंकोचभावाद् नाधिकावगाहनासंभव इत्यविरोधः, आह च भाष्यकृत्-18 "कह मरुदेवामाणं? नाभीतो जेण किश्चिदणा सा। तो किर पंचसयचिय अहवा संकोचओ सिद्धा ॥१॥"
प्र. १९ M
ona
For Personal & Private Use Only
Lolw.jainelibrary.org