SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाया: मलय० वृत्ती. २ स्थान|पदे सिद्धस्थानादि सू. ५४ ॥१०८॥ अवस्थिताः, तथा क-कस्मिन् क्षेत्रे बोन्दिस्तनुः शरीरमित्यनान्तरम् तां त्यक्त्वा क गत्वा सिद्ध्यन्ति ?-निष्ठितार्था भवन्ति ?, "सिज्झई' इत्यत्रानुखारलोपो द्रष्टव्यः, अथवा एकवचनोपन्यासोऽपि सूत्रशैल्या न विरोधमाक, तथा चान्यत्राऽप्येवं प्रयोगः-"वत्थगन्धमलंकारं, इत्थीओ सयणाणि य । अच्छंदा जे न भुंजंति, न से चाइत्ति वुच्चइ ॥१॥” इति, एवं शिष्येण प्रश्ने कृते सूरिराह-'अलोए पडिहया सिद्धा' इत्यादि, अत्रापि सप्तमी तृतीयार्थे, अलोकेन-केवलाकाशास्तिकायरूपेण प्रतिहताः-स्खलिताः सिद्धाः, इह तत्र धर्मास्तिकायाद्यभावात् तदानन्तर्यवृत्तिरेव प्रतिस्खलनम् , न तु संबन्धे सति विघातः, अप्रतिघत्वात् , सप्रतिघानां हि संबन्धे सति विघातः, नान्येषामिति, तथा लोकस्य-पश्चास्तिकायात्मकस्याग्रे-मूर्धनि प्रतिष्ठिताः-अपुनरागत्या व्यवस्थिताः, तथा इह मनुप्यलोके बोन्दी-तनुं त्यक्त्वा तत्र-लोकाग्रे समयान्तरप्रदेशान्तरास्पर्शनेन गत्वा सिध्यन्ति-निष्ठितार्था भवन्ति ॥ सम्प्रति तत्रगतानां यत्संस्थानं तदभिधित्सुराह-दीहं वा हस्सं वा' इत्यादि, दीर्घ वा-पञ्चधनुःशतप्रमाणं इखं वा-हस्तद्वयप्रमाणं वाशब्दाद् मध्यम वा विचित्रं यच्चरमभवे-पश्चिमभवे भवेत् संस्थानं ततः-तस्मात् संस्थानात् त्रिभागहीना-बदनोदरादिरन्ध्रपूरणेन तृतीयभागेन हीना सिद्धानामवगाहना, अवगाहन्तेऽस्यामित्यवगाहना-खावस्थैव भणिता तीर्थकरगणधरैरिति, अत्रगतसंस्थानप्रमाणापेक्षया त्रिभागहीनं तत्र संस्थानमिति भावः ॥ एतदेव | स्पष्टतरमुपदर्शयति-'जं संठाणं तु इहं' इत्यादि, यत्संस्थानं-यावत्प्रमाणं संस्थानं इह-मनुष्यभवे आसीत् तदेव TAGS20729202088020200000 ॥१०८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy